________________
हरिवंशपुराणं।
२४०
पंचदशः सर्गः। परयुवत्यपहारदुरीहितं प्रतिकृतानुशयस्य हताहितं ॥ १५ ॥ मणिगणच्छविविच्छरितोदरे सुरभिगर्भगृहे विहितादरे।
सह कदाचिदसौ गुणमालया दयितया शयितो वनमालया ॥ १६ ॥ अथ तयोः परिपाकमुपयुष प्रगुणमानसयोः प्रगुणायुषि ।। __ अधिपपात हि कालनियोगतो जलदकालसमागतचंचला ॥ १७ ॥ अशनिपातसहोज्झितजीवितौ परमदानफलोदयसेविती।
सुविजया गिराविह तावितौ विपुलखेचरतां सुखभावितौ ॥ १८ ॥ उभयकोटितटीघटितोदधिर्धवलिताधरितेंदुपयोदधिः।।
स्फुरितराज तमूर्तिरसौ यतः क्षितिवधूपथुहार इवायतः ॥ १९ ॥ वियदतीत्य भुवो दशयोजनी स्वजगतीद्वितयांसयुगेन सः। __ जगति भोगभुवोऽभिनवा यथा वहति खेचरराजपुरीगिरिः ॥ २० ॥
सुभृतभारतभूरिगिरीशते स्थिरदशोत्तररम्यपुरीशते । १ क्षणरुचिः सहसा समयोगतः । २ विजयार्धे ११० पुर्यः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org