________________
हरिवंशपुराणं ।
२४१
उदितपंचकविंशतियोजने वितततै द्विगुणे सुखयोजने ॥ २१ ॥ पुरमिहोत्तरमस्ति सुखक्षमं विनिदिताखिलेचाक्षगणश्रमं ।
अभृत
हरिपुरं विदितं तदभिख्यया हरिपुरप्रतिमं यदभिख्यया ॥ २२ ॥ अभवदस्य पुरस्य तु गोपिता पवनपूर्वगिरिः खचैरः पिता । सुमुखराजचरस्य मृगावती गुणवती जननी हि कलावती ॥ २३ ॥ चार्थवतीमभिधामयं प्रकटमार्य इतीह सुधामयं । वचनमार्यजन प्रमदावहं स्मरणमन्यभवप्रमदावहं || २४ || पुरमथोत्तरदिग्जगतीमितं भवति तत्र गिरौ विभवामितं । यदि मेघपुरं परमं परां वहति सन्मणिसौधपरंपरां ॥ २५ ॥ अधिवसत्यंथ तद्दमनोहरी रिपुमदेभकुलस्य मनोहरी ।
रतिषु यस्य मनोहरति प्रिया पवनवेगखगस्य रतिप्रिया ॥ २६ ॥ अजनि साथ तयोर्दुहिता सती सहचरी सुमुखस्य हिता सती । १ पंचाशयोजनविष्कंभे । २ रणितकेतुसुधालयसुक्षमं । ३ खचराधिपः ।
१६
Jain Education International
पंचदशः सर्गः ।
For Private & Personal Use Only
www.jainelibrary.org