________________
हरिवंशपुराणं ।
२३९
पंचदशः सर्गः। यतिवृषं सुमुखः स्वगृहागतं तमभिवीक्ष्य नृपः सहसोत्थितः॥९॥ प्रमदभारवशीकृतमानसस्तमभिगन्य परीतबधूयुतः।
सविनयं प्रतिगृह्य शुचिः शुचिं शुचिनि साधुमधान्मणिकुटिमे ॥ १० ॥ प्रियवधूकरधारितसत्कनत्कनककर्करिकाजलधारया । __व्यपगतांशुकया वरभूभृता स्वकरधौतमकारि मुनेः पदं ॥ ११ ॥ सुरभिगंधशुभाक्षतपुष्पसत्प्रकरदीपकधूपपुरःसरैः।
समभिपूज्य वचस्तनुचेतसा तमभिवंद्य सुदानमदान्मुदा ॥ १२ ॥ समगुणात्परिणामविशेषतः परभवे सहभोगफलोदयं ।
सुमनसा सुमुखो वनमालया सह बबंध सुपुण्यमपुण्यभित् ॥ १३ ॥ बहुदिनानशनव्रतधारणः कृततनुस्थितये कृतपारणः ।।
विहितदातृसुखोदयकारणः स मुनिरैत्पटुतत्वविचारणः ॥ १४ ॥ व्रजति नित्यमुखे सुमुखेशिनः सममनहसि पुण्यफलाशिनः । १ झारी ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org