________________
हरिवंशपुराणं ।
२३८
विषहते स्म वियोगविषं क्षणं विरहिणोरिव रात्रिषु पक्षिणोः । मिवधूवरयोर्वरयोस्तयोर्न हृदयं हृदयंगमचेष्टयोः ॥ ३ ॥ न विससर्ज ततः स्वपतेर्गृहं स्वगृह एव रुरोध वधूं प्रभुः । रहसि दुर्लभमाप्य मनीषितं न हि विमुंचति लब्धरसो जनः ॥ ४ ॥ सुमुखमुख्यवधूजनमुख्यतां समधिगम्य निजैः सुमुखैर्गुणैः ।
वरबधूरति गौरवमाप सा न सुलभं सुमुखे किमु भर्त्तरि ॥ ५॥ अवततार कदाचिदचिंतितो निधिरिवोरुतपोनिधिरंचितः ।
नृपगृहं वरधर्ममुनिगृहानतिथिरेति हि भूरिशुभोदये ॥ ६ ॥ परमदर्शन शुद्ध विशुद्धधीरधिकयोधविबुद्धपदार्थकः ।
व्रतसुगुप्तिसमित्यतिशुद्धतामयचरित्रपवित्रितविग्रहः ॥ ७ ॥ अनशनाध्ययनादितपः श्रिया धवलया प्रशमास्तविकारया | Gita गौरवया शुचिभूषितो विपुलनिर्जरया जरया यथा ॥ ८ ॥ विजितदोषकषायपरीषहं सुनिगृहीतजितेंद्रियवृत्तकं ।
Jain Education International
पंचदशः सर्गः ।
For Private & Personal Use Only
www.jainelibrary.org