________________
२३७
हरिवंशपुराणं ।
पंचदशः सर्गः। प्रकृष्टवैदग्धहृतात्मनोस्तयोः प्रसुप्तयोः प्रेमनिबद्धचित्तयोः ।
प्रवृत्तवृत्तांतमिव प्रवेदितुं प्रभातसंध्या व्यसृजत्प्रभाकरः ॥१०५॥ सहेंदुना बंधुरयाऽग्रसंधया सुरंजिता द्यौरभजत्परां द्युतिं ॥
सुचित्तवृत्या सुमुखेन सन्मुखी वधूरिवाऽसौ वनमालिका नवा ॥१०६॥ • नृपं शयानं सुमुखं विभाकरः सरोरुहश्रीवनमालया सह ।
महोदयाद्रिस्थित एव च द्रुतो व्यबोधयल्लोकमिमं यथा जिनः ॥१०७॥ इति “अरिष्टनेमि” पुराणसंग्रहे हरिवंशे जिनसेनाचार्यकृतौ सुमुखवनमालावर्णनो नाम चतुर्दशः सर्गः ।
पंचदशः सर्गः। अथ विबुद्धसरोजवनस्पृशा सुरभिणा स्पृशता महता तदा ।
हृतवपुः श्रमकं मिथुनं मिथस्तदकरोदुपगूढमतिश्लथं ।। १॥ मृदुतरंगधने शयनस्थले मदितपुष्पचये शयितोत्थितः।
सह बभौ प्रियया सुमुखो यथा समदहंसयुवा सिकतास्थले ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org