________________
३८
हरिवंशपुराणं।
चतुर्दशः सर्गः। वत्से वत्सेश्वरेणाहं त्वद्रूपहतचेतसा । प्रहिताऽस्मि तदेह्याऽऽशु तेन त्वां घटयाम्यहं ॥९३ ॥ इति स्वेष्टार्थसंवादे वनमाला स्मरातुरा । दूत्या पत्यौ परोक्षे द्रागविशद्राजमंदिरं ॥ ९४ ।। विलोक्य मनसचौरी सुमुखः सुमुखीं मुदा। एह्येहीति प्रियालापाचकार सुखिनी सुखी ॥१५॥ हस्तस्तनानुलुप्तां तां स्वेदिनिस्वेदिना युवा । हस्तेनादाय तन्वंगी शयने स्वे न्यवेशयत् ॥ ९६ ॥ प्रौढयौवनयोर्योगमनकर्तुमिवैतयोः । उदियाय निशानाथो प्रसादितनिशामुखः ।। ९७ ॥ शशांकस्य करस्पर्शान्मुमोदाशु कुमुद्रती । सुमुखस्येव करस्पर्शाद् वनमालेवहारिणी ॥९८ ॥ उक्तप्रत्युक्तयुक्ताथो स्त्रीपुंसगुणसंगतान् । प्रेमबंधप्रवृद्ध यै तौ बहून् भावांस्तु चक्रतुः ॥ ९९ ।। सोऽपि विशंभरास्तनवसंगमसाध्वसां । तामुत्संगे कृतां गाढमालिलिंगांगसंगतां ॥१०॥ असंतोषभुजाश्लेषैविश्लेषसुखितश्रमैः । चुंबनैश्चूषणदेशः कंठग्रहकचग्रहः ॥१०१॥ नितंबास्फालनैरंगप्रत्यंगस्पर्शनैर्मिथः । मिथुनं मन्मथोद्दीप्तं चिक्रीड विविधक्रियं ॥१०२॥ यथासत्वं यथाभावं यथावैदग्धमंगना । पुंसः सुखाय तस्याऽसौ बभूव सुरतोत्सवे ॥१०३॥ श्रमप्रस्विनसर्वांगौ कृतसंवाहनौ मिथः । नागाविव कृताश्लेषौ शयने शयितावुभौ ॥१०४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org