________________
हरिवंशपुराण ।
२३५
चतुर्दशः सर्गः। पुत्रि ! सर्वरहस्येषु नन्वहं तु परीक्षिता । भवत्या मयि सत्यां वा दुर्लभं किमभीप्सितं ॥८१॥ इत्युक्ता सोणनिश्वासग्लपिताधरपल्लवा । तया प्रार्थितया वार्ता कथमप्यब्रवीद्वचः ॥८२॥ त्वां मुक्त्वाऽत्र न मे काचिद्विश्रंभस्थानमत्र हि । षटूर्णो भिद्यते मंत्रो रक्षणीयः सयत्नतः।।८३॥ दृष्टो मयाऽद्य सद्रूपः सुमुखः सुमुखो नृपः । दृष्टमात्रं प्रविष्टोऽमा स मनो मे मनोभुवा ॥८४॥ दुर्लभेऽप्यभिलाषस्य द्वेषिणः सुलभो जनः । हृदयस्य खलस्येव वृत्तिरात्मोपतापिनी ॥८५॥ दिग्धं चंदनपंकेन हृदयं मम शुष्यति । वहिरंगो विधिः कुर्यादतरंगे विधौ तु किं ॥८६।। आर्द्रवस्त्रमपि न्यस्तमंगोपांगेऽतिशुष्यति । शीतस्पर्शोऽल्पशोऽत्युष्णे किं करोतु निधापितः।।८७॥ यस्य पल्लवतल्पोऽपि कल्पितो म्लायतेतरां । तापककेशगात्रस्य मृदुशीतः करोतु किं ॥८८॥ अंगस्पर्शाद्विना तस्य नाहं पश्मामि निवृति । तत्कुरुष्व दयां पूते तत्समागममेव मे ॥८९॥ तस्यापि हि मनोवृत्तिं प्रतीहि मम दर्शनात् । मदभिप्रायसंमिश्रां सर्वाकारोपलक्षितां ॥१०॥ तदा तप्तौ प्रवीणे! द्वौ त्वं नौ रहसि योजयेः । मुखेनैव हि कालज्ञे तप्तं तप्तेन योज्यते ॥११॥ निशम्य वनमालायास्तद्वचो भावसूचकं । जगाद वचनं दूती तदेति मुदितात्मिका ॥ ९२॥
१ चंदनलेपेन।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org