________________
२३४
हरिवंशपुराणं।
चतुर्दशः सर्गः। इति विज्ञापितो नत्वा प्रज्ञानेत्रेण मंत्रिणा । कतुमच्छत्तदुद्दिष्टं द्विष्टभुक्तिरपि प्रभुः ॥६९॥ विज्ञाय सुमुखाकृतं कृपयेव विभाकरः । प्रतीचीमगमच्छ्रीघ्रमुपसंहृतदीधितिः ॥ ७० ॥ प्रौढेऽस्ताभिमुखे ध्वस्तप्रतापे मित्रमंडले । सोद्यमोऽप्यभवल्लोको निखिलः खलितोद्यमः ॥७॥ दृष्टिरश्मिभिराकृष्य चक्रवाकैधृतो यथा । तदा कथमपि प्रायात् शनैर्भानुरदृश्यतां ।। ७२ ॥ संध्यारागेण चच्छन्नं भुवनं तदनंतरं । वनमालानुरागण सुमुखस्येव भूरिणा ॥७३॥ संकोचः पद्मखंडानां ततोऽभूत्खंडितौजसां । मित्रोदयोदयाः के वा मित्रापदि विकासिनः।।७४।। संध्यारागानुसंधाने ध्वांतेनापि कृते बभौ । मुक्तरक्तांबरं गूढं जगन्नीलपटेन वा ॥७५॥ लब्धो वर्णविवेको न लब्धवर्णैरपि क्षणं । प्रदोषे विषमे काले तिमिरोपप्लुतैस्तदा ॥७६॥ वेलायां तत्र संमंत्र्य मंत्री दूतीमजीगमत् । आत्रेयीं वनमालायाः समीपं सुमुखाज्ञया ॥७७॥ मानिताऽऽसनदानाद्यैः संफैली वनमालाया । साभिनंद्य रहस्येतामुवाचैवं विचक्षणा ॥७८॥ वनमाले प्रिये वत्से विचित्तेवाद्य लक्ष्यसे । वद वैचित्यहेतुं मे पत्या किमसि कोपिता ॥७९॥ वीरको ह्येकपत्नीकस्तत्र कि कोपकारणं । अन्यदत्र निमित्तं स्यात्स्वसंवेद्यं निगद्यतां ॥८॥
१ दूती।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org