________________
हारवंशपुराणं।
२३३
चतुर्दशः सर्गः। धर्मे चार्थे च कामे च प्रार्थितं दुर्लभं न ते । तदित्थं नाथ ! सौस्थित्यै मनो दुःखमितं कुतः॥५६॥ संविभज्य मनोदुःखं सख्यौ प्राणसमे सुखी । संपद्यते जनः सर्व इतीयं जगतः स्थितिः ॥५७॥ तदुच्यतां प्रभोऽद्यैव विदधामि तवप्सितं । सुस्थिते हि प्रभौ लोके सुस्थिताः सकलाः प्रजाः ॥५८॥ इत्युक्तः सोऽभ्यधात् सद्यो मया द्योतनयाऽनया दृष्टया परवध्वाऽऽशु विद्ययेव वशीकृतः ॥५९॥ ईदृशी दृक् स्वनपथ्या प्रायेण भवताऽप्यसौ । लक्षितैव निजं भावं कथयंती स्फुटेंगितः ॥६॥ इति श्रुत्वाऽवदन्मंत्री लक्षिता लक्षिता विभो । वणिजो वीरकस्यासौ वनमालाभिधा बधः॥६१॥ नृपोऽवादीत्तया योगो यदि मेऽद्य न जायते । न मन्ये जीवितं स्वस्य तस्याश्च कुटिलभ्रवः ॥१२॥ मन्ये दिवसमष्येषा सहते न मया विना । अनयाऽहमपि क्षिप्रं तद्विधत्स्व प्रतिक्रियां ॥६३।। दुर्यशःप्राप्यतेऽमुष्मिन्ननर्थोऽमुत्र मूढधीः । तथापि नेक्षते कार्य यथैव निमिषांधकः ॥६४॥ तत्त्वया न निवार्योऽहमकार्येऽपि प्रवृत्तधीः । पापोपशमनोपायाः संत्येव सति जीविते ॥६५॥ अनुमेने वचो मंत्री तदन्यायमपि प्रभोः । अत्यभ्यर्णविपत्तीनां मंत्रिणो हि निवर्तकाः ॥६६॥ आह चात्यनुकूलस्तमित्यसो प्रणतः प्रभो । वनमालां सुकंठे ते पश्यावेव मया कृतां ॥६७॥ त्वं मज्जनविधिं सद्यः भुक्तिं च भज पूर्ववत् । दिव्यानुलेपनश्लक्ष्णवस्त्रतांबूलमाल्यकं ॥६८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org