SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं। चतुर्दशः सर्गः। दरात्कटाक्षविक्षेपि चक्षुरंते निकुंचितं । जहेश्यास्तन्मनोभंगि प्रतिचक्षुःप्रदानतः ॥४३॥ अधरस्तननाभ्यंतःश्रोणिचरणवीक्षणैः । परावृत्तेक्षितैश्चक्रे सा तस्य स्मरदीपनं ॥ ४४ ॥ प्रियालापेक्षिभिः स्निग्धैरन्योन्यघटितैः कृते । जिहा विह्वलयोचि न लेभे ऽवसरं तयोः॥४५॥ तावासदौ च दर्मोचप्रेमबंधौ मनोरथं । दुर्लभाश्लेषसंभोगफललाभार्थमार्थिनौ ॥ ४६ ॥ रक्तायश्चित्तमादाय प्रदायास्य मनो निजं । नगर्या निर्ययौ राजा पणबंधात्कृतीव सः ॥४७॥ सपनोसमयानं वसंतस्यावतंसकं । विवेश जनतानंदि नरेंद्रो नंदनोपमं ॥४८॥ रम्य नागलताश्लिष्टैः पुष्पितैः फलितद्रुमैः । क्रमुकैर्नालिकेराद्यैर्दाडिमीकदलीवनैः ॥४९॥ विजहार वने हृद्य स्त्रीजनैः स निवृतः । वयस्यैरनुकूलैश्च नृपपुत्रैः सहारमत् ॥५०॥ कांचित्कालकलां तस्य क्रीडतो जनसंकुला | शून्येव वनमालाऽऽसीद् वनमालावियोगिनः।।५।। वनमालानरागेण हियमाणोऽविशत्पुरीं । क्षितीशः स्थीयते स्वस्थैः परचित्तैः कियच्चिरं ॥५२॥ अपृच्छत्सुमतिमंत्री तमुपांशु विशां विभुं । विषण्णोऽसि किमद्येश! कथ्यतामिति सादरः ॥५३॥ एकच्छत्रमिदं राज्यमनुरक्ताः प्रजाः प्रभो । अनुरागप्रतापाभ्यां निभृता भृत्यभूभृतः ॥५४॥ शार्थस्य प्रदानेन प्रीणितोऽर्थिजनोऽखिलः । वल्लभाः प्रणयोद्रेकान्मानिताश्च प्रसादिना ॥५५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy