________________
हरिवंशपुराणं ।
२३१
चतुर्दशः सर्गः वसंतमिव साक्षात् तं वसंतं हृदि संततं । दिदृक्षुः क्षुभिता मंक्षु पौरनारीजनाततिः ॥ ३० ॥ वर्धस्व जय नंदेति कृतनादा कृतांजलिः । भूपरूपं पपौ सैषा नेत्रांजलिभिराकुला ॥ ३१ ॥ तत्र स्त्रीजनमध्यस्थामेकामत्यंतहारिणीं । रतिं साक्षादिव प्राप्तामद्राक्षीद् वनितां नृपः ॥ ३२ ॥ मुखेदौ नेत्रयुग्माब्जे विंबोष्ठे कंबुकंठके । स्तनचक्रे कृशे मध्ये गंभीरे नाभिमंडले ।। ३३ ।। घने जघने तस्या नितंबे सकुकुंदरे । उरुजानुलसजंघापाणिपादे पदे पदे ॥ ३४ ॥
निपतितां दृष्टि मनसाधिष्ठितां निजां । न शशाकोपसंहर्तुमतिरक्तो नरेश्वरः ।। ३५ ।। दध्यौ वधूरियं कस्य रूपपाशेन मे मनः । बद्ध्वा मुग्धमृगीनेत्रा समाकर्षति हर्षिणी ।। ३६ ।। यदीयं नानुभूयेत मया हृदयहारिणी । ततो व्यर्थ ममैश्वर्यं रूपं च नवयौवनं ॥ ३७ ॥ लोकोऽयमेकतो भूयात्सर्वदा दुर्व्यतिक्रमः । अभिलाषोऽन्यदारेषु दुःसहोऽयमथैकतः || ३८ ॥ इति ध्यायन्मनश्चक्रे स तस्या हरणे नृपः । अपवादो हि सह्येत रक्तेन न मनोव्यथा ॥ ३९ ॥ यशः प्रकाशमानोऽपि लोकज्ञः सोऽत्यमुह्यत । तमः पतनकाले हि प्रभवत्यपि भास्वतः ॥ ४० ॥ साsपि दर्शनतस्तस्य रूपिणः शिथिलांगिका । शशाक न मनो धर्चु दोलारूदेव कामिनी ॥ ४१ ॥ विचित्ररससंस्पर्शप्रादुर्भाव फलोदयं । भावं च प्रकटीचक्रे सानुलुब्धमनोगतं ॥ ४२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org