SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं। चतुर्दशः सर्ग। जिगीषयेव विकसन्नागपुन्नागसंहतेः । सिंहकेशरसिंहस्य केशरश्रीयंनँभत ॥ १८॥ मालतीवल्लभां मासश्चिरविश्लेषशोषितां । चकाराश्लेषपुष्टांगी सद्यः पुष्पवतीं मधुः ॥ १९ ॥ हिंदोलग्रामरागेण रक्तकंठाधरश्रियः । दोलाढयं दोलनक्रीडाव्यासक्ताः कोमलं जगुः ॥२०॥ उद्यानवनखंडेषु तत्कालोचितमंडनाः । स्त्रीसखाः कोचिदाभेजुः प्रीत्या पानपरंपरां ॥ २१ ॥ प्रादूर्वाकुरमासाद्य हरिण्यै हरिणो ददौ । तं साऽऽस्वाद्य ददौ तस्मै प्रियाघ्रातोऽपि हि प्रियः ॥२२॥ सल्लकीपल्लवोल्लासिकवलग्रासलालसाम् । स्वाननस्पर्शसौख्यांधांचकार करिणी करी ॥ २३ ॥ मधुपानमदोन्मत्तमधुपद्वंद्वमुत्स्वनं । मधौ विज॑भितेऽन्योऽन्यं जिघ्रतिस्म घनस्पृहं ॥ २४ ॥ कोकिलाकलकंठीनां गीतं श्रुत्वेव योषितां । चुकूज कोकिलस्तोषपोषी तस्य जिगीषया ॥२५॥ मधुपैः परपुष्टैश्च कलकोलाहलाकुलैः । गीयते स्म मधुर्यत्र तत्रान्येषु कथा नु का ॥ २६ ॥ इत्थं राजा मधौ मासे जाते जनमनोहरे । वभ्रे वनविहाराय मनो मदनविभ्रमं ॥ २७ ॥ कृतमंडनमारूढ़ो द्विपेंद्रं कृतमंडनः । अखंडमंडलेद्धाभच्छत्रछन्नार्कमंडलः ॥ २८ ॥ पूर्यमाणः पुरो निर्यन् नृपैरोधैरिवोदधिः । राजा राजपथं भेजे वंदिवृंदस्तुतोऽन्यदा ॥ २९ ॥ १ 'नागसंहतिसंततेः' इति क पुस्तके । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy