SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ चतुर्दशः सर्गः । हरिवंशपुराणं । दोषाकरकराप्राप्ता रत्नभूषाचिषां चयैः । लेभे बहुलदोषासु परभागं सतीव या ||५|| पुर्याः प्रभुरभूत्तस्याः प्रतापप्रभवो नृपः । सवितेव कराक्रांतदिक्चक्रः सुमुखः सुखी || ६ || वर्णसंकरविक्षेपिधनुषेंद्रधनुर्गुणैः । यस्याधिक्षिप्तमक्षिप्तवर्ण संकरदोषकं ||७|| दर्शनीयतमांगस्य संगतस्य युवश्रिया । अदृष्टविग्रहानंगो रूपेणास्य समः कथं ॥ ८ ॥ धर्मशास्त्रार्थकुशलः कलागुणविशेषवान् । निग्रहेऽनुग्रहे शक्तः प्रजानामनुपालकः ||९॥ सोऽवरोधनराजीववनराजीमधुत्रतः । ऋतून्मानयति प्राप्तानकृत त्रिगुणक्षतिः ॥१०॥ अथ प्राप्तो वसंतर्तुः सुमुखद्युतिरुद्यमी । पुष्पपल्लवराग श्रीवनमालामनोहरः ॥ ११॥ नवपल्लवगाढ्याश्चूताश्वेतोहरा बभुः । वनमालानुरागस्य सूचकाः सुमुखस्य च ||१२|| जज्वलुर्ज्वलनज्वालालीलाः किंशुकराशयः । वियुज्येवानयुक्तानां विमुक्ता विरहाग्नयः || १३|| रणन्नूपुरचारुस्त्रीकोमलक्रमताडितः । नवाशोकयुवोद्भिन्नपलवांगहो बभौ ||१४|| अखंडमधुगंडूषपानपूरितदौहृदः । बकुलोऽपूरयत्पुष्पैः प्रमदाजन दौहृदं ||१५|| चक्रे कुरवको यूनां शिलीमुखरवैः सुखं । सुखिनां यः स एवाभूदितरषां यथाश्रुति ।। १६ ॥ पाटलामोदसुभगां वनश्रीवनितामलं । चक्रुः पुष्पवतीं फुल्लास्तिलकास्तिलकाश्रया ॥ १७ ॥ Jain Education International २२९ For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy