________________
हरिवंशपुराणं ।
२२८
शुद्धे श्रेणिक ! शीतलस्य दशमे तीर्थे वहत्युज्वले | काले केवलदीप कोज्ज्वल जगदेवेंद्र देवागमे ।
प्रोद्भूतः प्रकटप्रभावमहतां वंशो हरीणां यथा
वर्ण्यः सोऽपि मया तथा जिनपथे तथ्यो नृपाकर्ण्यतां ॥ ३४ ॥ इत्यरिष्टनोमपुराणसंग्रहे हरिवंशे जिनसेनाचार्यकृतौ इक्ष्वाकुवंशवर्णनोनाम त्रयोदशः सर्गः ।
चतुर्दशः सर्गः ।
चतुर्दशः सर्गः ।
अस्ति वत्साभिधो देशो देशेष्विह परेषु यः । सत्सु वत्साकृतिं धत्ते गोदोहे दोग्धगोचरे ॥१॥ कालिंदीस्निग्धनीलांबुप्रतिबिंबितसोधता । कौशांबी नगरी तस्य गंभीरा नाभिरत्यभात् ||२|| वप्रप्राकारपरिखा भूषणांबरधारिणी । नितंबस्तनभारार्त्तस्तंभितेव बधूरभात् ||३|| रत्नचित्रांबरधरा या प्रासादमुखैर्घनान् । वर्षानिशास्विव स्निग्धान् लेढि प्रौढाभिसारिका ||४|| १ ' दुग्धगोचरे ' इति ख पुस्तके । २ सौधपंक्तिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org