________________
२२७
हरिवंशपुराणं।
त्रयोदशः सर्गः। विद्युन्मुखः सुवक्त्रश्च विद्युदंष्ट्रस्तथैव च । विद्युत्वान् विद्युदाभश्च विद्युद्वेगश्च वैद्युतः ॥२४॥ इत्याद्याः सुतविन्यस्तविभवाः खेचराधिपाः । आये तीर्थे तपः कृत्वा स्वर्ग मोक्षं च भेजिरे ॥२५॥ स्वर्गाग्रादवतीर्याऽथ जातस्तीर्थकरोऽजितः । नाभेयस्यापि तस्यापि पंचकल्याणवर्णना ॥२६॥ काले तस्याभवच्चक्री द्वितीयः सगरश्रुतिः । अक्षीणनिधिरत्नेशः प्रसिद्धो भरतो यथा ॥२७॥ पुत्राःषष्टिसहस्राणि तस्य दुर्ललितक्रियाः । परस्परमहाप्रीताः प्रत्याख्यातान्हुपूर्वकाः ॥२८॥ कृताष्टापदकैलासा दंडरत्नेन ते क्षिति । भिंदानाः कुपितेनामी नागराजेन भस्मिताः ॥२९॥ संसारस्थितिविच्चक्री पुत्रशोकमुदस्य सः । दीक्षित्वाजितनाथांते मोक्षमैत् मुक्तबंधनः ॥३०॥ ततः संभवनाथोऽभूत्ततोऽभूदभिनंदनः । ततः सुमतिनाथश्च ततः पद्मप्रभो जिनः ॥३१॥ सुपार्श्वश्च जिनेंद्रोऽस्मात् ततश्चंद्रप्रभः प्रभुः । पुष्पदंतः परस्तस्माद्दशमः शीतलस्ततः ॥३२॥ इक्ष्वाकुःप्रथमप्रधानमुदगादादित्यवंशस्तत
स्तस्मादेव च सोमवंश इति यस्त्वन्ये कुरुपादयः॥ पश्चाद् श्रीवृषभादभूदृषिगणः श्रीवंश उच्चस्तरा
मित्थं ते नृपखेचरान्वययुता वंशास्तवोक्ता मया ॥३३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org