SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । २२६ त्रयोदशः सर्गः । Cach आदित्यवंशसंभूताः क्रमेण पृथुकीर्त्तयः । सुते न्यस्तभराः प्रापुस्तपसा परिनिर्वृतिं ||१२|| मोक्षमिक्ष्वाको जग्मुर्भरताद्या निरंतराः । ते चतुर्दशलक्षास्तु प्रापैकोऽग्रेऽहमिद्रतां ॥१३॥ तथा दशगुणाचाष्टौ परिपाठ्यां नरेश्वराः । मुक्तास्तदंतरे प्रापदेकैकः सुरनाथतां ॥ १४॥ धीरा राज्यधुरां त्यक्त्वा धृत्वांतेऽन्ये तपोधुरां । स्वर्गमेऽपवर्गं तु जग्मुरादित्यवंशजाः ||१५|| योऽसौ बाहुबली तस्माज्जातः सोमयशाः सुतः । सोमवंशस्य कर्तासौ तस्य सुनुर्महाबलः ॥ १६ ॥ ततोऽभूत्सुबलः सूनुरभूद्भुजबली ततः । एवमाद्याः शिवं प्राप्ताः सोमवंशोद्भवाः नृपाः ॥१७॥ पंचाशत्कोटिलक्षाश्च सागराणां प्रमाणतः । तीर्थे वृषभनाथस्य तदा वहति संतते || १८ || इक्ष्वाकवो द्विधादित्यसोमवंशोद्भवाः नृपाः । उग्राद्या कौरवाद्याश्च मोक्षं स्वर्ग च भेजिरे ॥ १९ ॥ नमः खेचरनाथस्य रत्नमाली शरीरजः । रत्नवज्रोऽभवत्तस्मात्ततो रत्नरथस्तथा ॥ २० ॥ रत्नचिह्नाभिधानोऽस्मात् तस्माच्चंद्ररथः सुतः । वज्रजंघो वभूवास्मात् वज्रसेनसुतस्ततः ||२१|| संजातो वज्रदंष्ट्रोऽस्मादभूद्वज्रध्वजस्ततः । वज्रायुधश्व वज्रोतः सुवज्रो वज्रभृत्नः ॥२२॥ वज्रभो वज्रबाहुच वज्रांको वज्रसुंदरः । वज्रस्यो वज्रपाणिश्च वज्रभानुश्च वज्रवान् ॥२३॥ १' परिपाद्या' इति कख पुस्तकयोः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy