________________
हरिवंशपुराणं ।
२२५
त्रयोदशः सर्गः ।
अनुभूय चिरं लक्ष्मीं भूपतिर्भरतेश्वरः । आदित्ययशसं पुत्रमभिषिच्य भ्रुवो विभुः ॥ १ ॥ दीक्षां जग्राह जैनेंद्रग्रामात्मपरिग्रहां । दुर्निग्रहेंद्रियग्राममृगनिग्रहवागुरां ॥ २ ॥ पंचमुष्टिभिरुत्पाट्य त्रुटचद्वंधस्थितिः कचान् । लोचानंतरमेवापद् राजन् श्रेणिक ! केवलं ॥ ३ ॥ द्वात्रिंशेत्रिदशेंद्रैः स कृतकेवलपूजनः । दीपको मोक्षमार्गस्य विजहार चिरं महीं ॥ ४॥ पूर्वलक्षाः कुमारत्वे तस्यागुः सप्तसप्ततिः । साम्राज्ये षट् प्रभोरेका श्रामण्ये विश्वदृश्वनः ॥ ५ ॥ शैलं वृषभसेनाद्यैः कैलासमधिरुह्य सः । शेषकर्मक्षयान्मोक्षमंते प्राप्तः सुरैः स्तुतः || ६ || आदित्ययशसः पुत्रो यातः स्मितयशः श्रुतिः । श्रियं तस्मै वितीर्यासौ तपसा प्राप निर्वृतिं ॥ ७ ॥ बलस्तस्मादभूत्पुत्रः सुबलोडतो महाबलः । ततोऽतिबलनामा च तस्यामृतबलः सुतः ||८|| सुभद्रः सागरो भद्रो रवितेजाः शशी ततः । प्रभूततेजास्तेजस्वी तपनोऽन्यः प्रतापवान् ||९|| अतिवीर्यः सुवीर्योऽतस्तथोदितपराक्रमः । महेंद्रविक्रमः सूर्य इंद्रद्युम्नो महेंद्रजित् ||१०| प्रभुर्विभुरविध्वंसो वीतभीर्वृषभध्वजः । गरुडांको मृगांकाख्य इत्याद्याः पृथिवीभृतः ॥ ११॥ १ कल्पवासिनः १२, भवनवासिनः १०, व्यन्तराः ८, सूर्याचंद्रमसौ इति = ३२ |
१५
Jain Education International
त्रयोदशः सर्गः ।
For Private & Personal Use Only
www.jainelibrary.org