________________
हरिवंशपुराणं।
२२४
द्वादशः सर्गः। इत्थं कृत्वा समर्थ भवजलधिजलोत्तारणे भावतीर्थ
कल्पांतस्थायिभूयस्त्रिभुवनहितकृत् क्षेत्रतीर्थं स कर्तुं स्वाभाव्यादारुरोह श्रमणगणसुरवातसंपूज्यपादः
कैलासाख्यं महीधं निषधमिव वृषादित्य इद्धप्रभादयः ॥ ८० ॥ तस्मिन्नद्रौ जिनेंद्रः स्फटिकमणिशिलाजालरम्ये निषण्णो
योगानां संनिरोधं सह दशभिरथो योगिनां यैः सहस्रैः । कृत्वा कृत्वांतमंते चतुरपरमहाकर्मभेदस्य शर्म
स्थानं स्थानं स सैद्धं समगमदमलस्रग्धराभ्यय॑मानः ॥ ८१ ॥ उद्धः संघोऽस्य मौनःस्फुटभुवनगुरोर्देवदेवस्य देहं
देवौषश्चक्रवर्तिप्रमुखनृपगणश्चातिभक्त्या समेत्य ॥ गंधैः पुष्पैश्च धूपैः सुरभिभिरमलैरक्षतैश्च प्रदीपैः
संपूज्यानम्य सम्यग्वृषभजिनगुणश्रीफलं याचते स्म ॥ २२ ॥ इति “अरिष्टनेमिपुराणसंग्रहे हरिवंशे जिनसेनाचार्यकृतौ वृषभेश्वरपरिनिर्वाणवर्णनो नाम द्वादशः सर्गः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org