________________
हरिवंशपुराणं ।
२२३
द्वादशः सर्गः ।
कच्छश्चापि महाकच्छः सुकच्छोऽतिबलोऽपि च । भद्रावलिश्व विख्यातो नमिश्च विनमिस्तथा ॥ ६८ ॥ भद्रवो नंदी तथाऽन्यः समुदीरितः । महानुभावसंज्ञश्च नंदिमित्रश्च नामतः ।। ६९ ।। तथैव कामदेवश्च चरमोऽनुपमः स्मृतः । वृषभस्य गणिनस्तेऽमी अशीतिश्चतुरुत्तरा ॥ ७० ॥ संघः परिषदि श्रीमान् बभौ सप्तविधस्तदा । विचित्रगुणपूर्णानामृषीणां वृषभेशिनः ॥७१॥ सहस्राणि च चत्वारि तत्र सप्तशतानि च । पंचाशच्च महाभागा बभ्रुः पूर्वधरास्तदा |||७२ || तावत्येव सहस्राणि शतं पंचाशता युतं । श्रुतस्य शिक्षकाः प्रोक्ताः संयताः संयताक्षकाः || ७३ || सहस्राणि नवाधीता मुनयोऽवधिलोचनाः । विंशतिस्ते सहस्राणि केवलज्ञानलोचना || ७४॥ विंशतिस्ते सहस्राणि षट् शतानि च वैक्रियाः । विक्रियाशक्तियोगेन जयंतः शक्रमप्यलं ॥ ७५ ॥ द्वादशैव सहस्राणि तथा सप्तशतानि च । पंचाशच्च युतास्तत्र मत्या विपुलया बभ्रुः ||७६ || तावंत एव संख्याताः संख्ययाऽसंख्य सद्गुणाः । जेतारो हेतुवादज्ञा वादिनः प्रतिवादिनां ॥ ७७|| सपंचाशत्सहस्रास्ता शुद्धज्ञा बभ्रुरार्थिकाः । श्राविकाः पंचलक्ष्यस्तास्त्रिलक्षाः श्रावकाश्च ते ||७८ || छद्मस्थकालनिर्मुक्तां पूर्वलक्षां जिनेश्वरः । विजहार महीं भव्यान् भवाब्धेस्तारयन् बहून् ॥७९॥ १-४७५० । २- ४१५० । ३-९००० । ४-२००००।
५-२०६००। ६-१२७५० ।
Jain Education International
For Private & Personal Use Only
J
www.jainelibrary.org