________________
हरिवंशपुराणं ।
२२२
द्वादशः सर्गः ।
५६ ॥
षष्ठो गणधरो धीमान् धनदेव इतीरितः । नंदनः सोमदत्तश्च सुरदत्तस्तथा परः ॥ वायुशर्मा सुबाहु देवाग्निर्द्वादशो गणी । अग्निदेवोऽग्निभूता चतुर्दश उदीरितः ॥ ५७ ॥ तेजस्वी चाग्निमित्रश्च तथा हलधरः श्रुती । महीधरथ माहेंद्रो वसुदेवो वसुंधरः ॥ ५८ ॥ तथैवाचलनामान्यो मेरुश्च जगतीष्यते । भूतिः सर्वसहो यज्ञः सर्वगुप्तस्तथापरः ॥ ५९ ॥ द्वौ च सर्वप्रियो देवो विजयश्वापि संज्ञया । परो विजयगुप्तश्र मित्रांतविजयस्ततः ॥ ६० ॥ विजयश्रीरिति ख्यातः पराख्योऽप्यपराजितः वसुमित्रोऽपि सेनांतो वसुसाधुरनीदृशः ||३१|| सत्यदेव इति ज्ञेयः सत्यवेदः पुनर्गणी । सर्वगुप्तश्च मित्रश्च सत्यवानिति नामतः ||६२॥ विनीतः संवरथोभावृषिगुप्तर्षिदत्तकौ । यज्ञदेव इति प्रोक्तो यज्ञगुप्तस्तथैव च ॥ ६३ ॥ यज्ञमित्रो यज्ञदत्तः स्वायंभुव इति स्तुतः । भागदत्तो भागफल्गुगुप्तफल्गुः प्रकीर्त्तितः ॥ ६४ || तथाऽन्यो गणभृन्नाम्ना मित्रफल्गुः प्रजापतिः । ततः सत्ययशा नाम्ना वरुणो धनवाकः॥६५॥ गणी महेंद्रदत्तश्च तेजोराशिर्महारथः । विजयश्रुतिरन्यश्च महाबल इति श्रुतः ||६६ ॥ सुविशालश्च वज्रश्च वैरनामा ततोऽपर । सप्ततिचंद्रचूडोऽन्यस्ततो मेघेश्वरः परः ||६७ || १ सर्वप्रियौ देवौ इति कख पुस्तकयोः । २ धनवाहिकः इति क पुस्तके |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org