________________
हरिवंशपुराणं ।
२२१
द्वादशः सर्गः। भरतोऽयं नृपः सार्द्धमुपविष्टो जिनांतिके । अंतःपुरमिदं तस्य सुभद्रादिकमेकतः ॥४३॥ पश्य पश्य प्रिये चित्रं यदन्योन्यविरोधिनः । तियचोऽमी समासीनाः सममकत्र मित्रवत् ॥४४॥ दर्शयनिति कांतायै समवस्थितिमहतः । सोऽवतीर्य मरुन्मार्गात् कृतजैनेंद्रसंस्तवः ॥४५॥ निविष्टश्चक्रिणः पार्श्वे विनयी नयविजयः । सुभद्रांतिकमासाद्य समासीना सुलोचना ॥ ४६॥ धर्म तत्र जयः श्रुत्वा सप्रपंचकथामृतं । बोधिलाभमसौ लेभे मोहनीयतनुत्वतः ॥४७॥ स्नेहपाशं दृढं छित्त्वा प्रबोध्य स सुलोचनां । पुत्रायानंतवीर्याय दत्वा राज्यं निजं कृती ॥४८॥ चक्रिणा रुध्यमानोऽपि स स्नेहवशवर्तिना । प्रचबाज जिनस्यांते विजयेन जयः समं ॥ ४९ ॥ शतान्यष्टौ जयेनामा प्राव्रजन् क्षितिपास्तदा । कलत्रपुत्रमित्राणि सराज्यान्यवहाय ते ॥ ५० ॥ दुःसंसारस्वभावज्ञा सपत्नीभिः सितांबरा । ब्राह्मीं च सुंदरीं श्रित्वा प्रवत्राज सुलोचना ॥५१॥ द्वादशांगधरो जातः क्षिप्रं मेघेश्वरो गणी। एकादशांगभूज्जाता साऽऽर्यिकाऽपि सुलोचना ॥५२॥ भूचरेषु ततोऽन्येषु खेचरेषु च राजसु । निष्क्रतिषु श्रियस्त्यक्त्वा दोषिणीरिव योषितः ॥५३ ॥ अभूवन् गणिनो भर्तुरशीतिश्चतुरुत्तरा । सहस्राणि गणाश्वासनशीतिश्चतुरुत्तरा ॥ ५४ ॥ आयौ वृषभसेनोऽन्यः कुंभो दृढरथो गणी । चतुर्थः शत्रुदमनो देवशर्मा च पंचमः ॥५५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org