________________
हरिवंशपुराणं।
२२०
द्वादशः सर्गः ।
शक्रप्रशंसनादेत्य रतिप्रभसुरेण सः । परीक्ष्य स्वस्त्रिया मेरावन्यदा पूजितो जयः ॥३०॥ सर्वासामेव शुद्धीनां शीलशुद्धिः प्रशस्यते । शीलशुद्धिविशुद्धानां किंकरास्त्रिदशा नृणां ॥३१॥ वर्षाणि बहुपत्नीकः सुबहूनि बहुप्रजाः । बुभुजे परमान् भोगान् विजयेन समं जयः ॥३२॥ सुतयाऽकंपनस्यासावाक्रांड्याद्रिषु चान्यदा । वंदनार्थ जिनेंद्रस्य वृषभस्य समागमत् ॥३३॥ प्रत्यासन्नमवोचंती प्रोवाच दयितां च सः । प्रिये पश्य जिनाधीशं त्रैलोक्यपरिवारितं ॥३४॥ प्रातिहाथैर्युतोऽष्टाभिश्चतुस्त्रिंशन्महाद्भुतैः । अयं भाति विशुद्धांतो त्रैलोक्यपरमेश्वरः ॥३५॥ अमी चतुर्विधा देवाः सौधर्मप्रमुखाः प्रिये । देव्योऽमीषामपि मूनो प्रणमंति जिनेश्वरं ॥३६॥ नानर्द्धियतिभिर्युक्ताः सप्ततिगंणधारिणः । अमी वृषभसेनाद्याः प्रकाशंतेंतिकं प्रभोः ॥३७॥ असौ बाहुबली कांते ! केवली जटिलो वृतः । स्वभ्रातृमुनिभिर्भाति न्यग्रोध इव पादपैः ॥३८॥ एष सोमप्रभो देवि ! शोभते गुरुरावयोः । श्रेयसा सहितो योगी तप:श्रीपरिवारितः॥३९॥ अयं पुत्रसहस्रेण तपस्थो जनकस्तव । अकंपनमहाराजो राजते तपसा श्रिया ॥४०॥ दुर्मर्षणादयस्तेऽमी त्वत्स्वयंवरयोधिनः । उपशांतधियः कांते ! तपस्यंति महानृपाः ॥४१॥ ब्राह्मीयं सुंदरीयं च समस्तार्यागणाग्रणी । कुमारीभ्यां प्रिये ताभ्यां मारभंगः स्फुटीकृतः॥४२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org