SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ द्वादशः सर्गः। हरिवंशपुराण। २१९ अट्टिटिकारसंबंधं सुकांतरतिवेगयोः । दम्पत्योर्दग्धयोस्तेन मरणं करुणावहं ॥१८॥ मार्जारेण सता तेन स्वपारावतजन्मनि । भक्षणे दुःखमरणं स्वं जगाद सुलोचना ॥॥१९॥ साधुदानानुमोदेन प्रभावत्या प्रभावितः । हिरण्यवर्मणो भोगं महाविद्याधरश्रियः ॥२०॥ स्वपूर्ववैरिणा दाहं तयोः सह तपस्थयोः । आद्यकल्पसमुत्पत्तिं संक्लेशपरिणामतः ॥२१॥ क्रीडार्थमागतस्यास्य क्ष्मां देवमिथुनस्य च । वैरिणो नरकोत्थस्य भीमसाधोश्च मर्षणं ॥२२॥ स्वर्गच्यवनपर्यंत दंपत्योश्चरितं यथा । दृष्टं श्रुतानुभूतार्थ सविस्तरमुदीरितं ॥२३॥ निजाज्ञया च कथितं श्रीपालचरितं तथा । सांतःपुरो जयः श्रुत्वा महांतं विस्मयं श्रितः ॥२४॥ भवपंचकसंबंधस्नेहसागरवर्तिनोः । स्मरणादेव संप्राप्ताः विद्याः प्राग्जन्मजास्तयोः ॥२५॥ ततो विद्याप्रभावेन विद्याधरयुवश्रियो । विजहतुर्जयंतौ तौ लोकं खेचरगोचरं ॥२६॥ जिनेंद्रवंदनापूर्व त्रिवर्गपरिपोषिणा । मंदरस्य रतं तेन कंदरासु समं तया ॥२७॥ कुलशैलनितंबेषु सुविशालनितंबया । रेमे किन्नरगीतेषु रामया सोऽभिरामया ॥२८॥ कर्मभूमिभवेनापि क्रीडितं भोगभूमिषु । कलागुणविदग्धेन मिथुनेन यथेप्सितं ॥२९॥ १ आद्यक्लेश । ) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy