________________
२१८
हरिवंशपुराणं ।
द्वादशः सर्गः। तान् प्रशस्य ततश्चक्री शासनं च जिनेशिनां । नत्वेशं साधुसंघ च विवेश मुदितः पुरीं ॥ ६ ॥ शनैर्याति ततः काले साम्राज्ये लोकपालिनः । चतुर्वाचितज्ञानजलक्षालितचेतसः ॥ ७ ॥ ततः स्वयंवरारंभे प्राप्ते भूचरखेचरे । वृते मेघेश्वरे धीरे सुसुलोचनया तया ॥८॥ युद्धे बद्धे च कीत्तौ च मुक्ते च कृतपूजने । अकंपनसुताभा पृजितश्चक्रवर्तिना ॥ ९॥ स हास्तिनपुराधीशःप्रासादस्थोऽन्यदा वृतः। स्त्रीभिः खे खेचरंयांत खेचर्या वीक्ष्य मूर्छितः॥१०॥ विह्वलांतःपुरस्त्रीभिः कृतमूर्छाप्रतिक्रियः । हा प्रभावति ! याताऽसि केत्यवादीत्प्रबुद्धवान् ॥११॥ जये जातिस्मरे जाते तत्प्रियाऽपि सुलोचना । प्रासादवल्लभो क्रीडत्पाराव्रतयुगेक्षणात् ॥१२॥ भूत्वा जातिस्मरा मूर्छा गत्वा प्राप्य प्रतिक्रियः । हिरण्यवर्मणो नाम गृह्णतीव समुत्थिता॥१३॥ हिरण्यवर्मपूर्वोऽहमित्युवाच जयः प्रियां । साऽहं प्रभावतीत्याह प्रहृष्टा तं सुलोचना ॥१४॥ विद्याधरभवं पूर्वमभिज्ञानरुभावपि । परस्परस्य संवाद्यं स्पष्टं विदधतुः प्रियो ॥१५॥ ततोऽतःपुरलोकस्य कौतुकव्याप्तचेतसः । किमेतदिति जिज्ञासा ज्ञापनार्थ जयोक्तया ॥१६॥ सुखदुःखरसोन्मिश्रमवियोगसुखान्वितं । द्वयोश्चरितमाख्यातं चतुर्भवमयं तया ॥१७॥
१ कृतमूर्छानिवारणः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org