SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । द्वादशः सर्गः । धर्मार्थकाममोक्षेषु यथेष्टमनुरागिणः । जनाः संततमारेमुनिः प्रत्यूहसमीहिताः ॥ १३७॥ अवाग्विसर्गमन्येषां पूर्वधर्मफलं प्रभुः । श्रिया स दर्शयन् केषां नाभूद्धर्मस्य देशकः || ३८ ॥ धर्मस्याचरितस्य पूर्वजनने मार्गे जिनानां महान्माहात्म्येन सपौरुषः सुखनिधिर्लोकैक कल्पद्रुमः । सम्यग्दर्शन रत्नरंजितमनोवृत्तिर्मनश्चक्रभृत् चक्रे शक्रनिभः श्रियाऽत्र भरतः शार्दूलविक्रीडितं ॥ १३९॥ इति “अरिष्टनेमि ” पुराणसंग्रहे हरिवंशे जिनसेनाचार्यकृतौ भरतदिग्विजयवर्णनो नाम एकादशः सर्गः । २१७ द्वादशः सर्गः । चकार वंदनां गत्वा चक्री भर्त्तुरनारतं । स त्रिषष्टिपुराणानि शुश्राव च सविस्तरं ॥ १ ॥ चतुर्विंशतितीर्थेशं वंदनार्थं शिरस्पृशं । अचीकरदसौ वेश्मद्वारे वंदनमालिकां ॥ २ ॥ अदृष्टपूर्वतीर्थेशाः प्रविष्टाः समवस्थितिं । कदाचिच्चक्रिणा सार्द्धं विवर्द्धनपुरोगमाः || ३॥ क्लिष्टा स्थावरकायेष्वनादिमिथ्यात्वदृष्टयः । दृष्ट्वा भगवतो लक्ष्मी राजपुत्राः सुविस्मिताः ॥ ४ ॥ अंतर्मुहूर्तकालेन प्रतिपन्नसुसंयमाः । त्रयोविंशान्यहो चित्रं शतानि नवभिर्वभुः ॥ ५ ॥ १-९२३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy