SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं। एकादशः सर्गः। शतानि त्रीणि षष्टया तु सूपकाराः परे परे । कल्याणसिक्तमाहारं प्रत्यहं ये वितन्वते ।।१२४॥ सहस्रसिक्तकबलो हात्रिंशत् तेपि चक्रिणः । एकश्वासौ सुभद्रायाः एकोऽन्येषां तु तृप्तये॥१२५॥ चित्रकारसहस्राणि नवतिर्नवभिः सह । द्वात्रिंशत् ते सहस्राणि नृपा मुकुटबद्धकाः ।। १२६ ।। देशाश्चापि हि तावंतो जयंत्यपि सुरस्त्रियः । अंतःपुरसहस्राणि तस्य षण्णवतिः प्रभोः ।।१२७॥ हलकोटी तथा गावस्त्रिकोव्यः कामधेनवः । कोव्यश्चाष्टादशाश्वानां निश्चया वातरहसां ।।१२८॥ लक्षाश्चतुरशीतिस्तु मदमथरगामिनां । हस्तिनां सुरथानां च प्रत्येकं चक्रवर्तिनः ॥१२९।। आदित्ययशसा सार्द्ध विबर्द्धनपुरोगमाः । पंच पुत्रशतान्यस्य वशाश्वरमदेहकाः ॥१३०॥ भाजनं भोजनं शय्या चमूर्वाहनमासनं । निधिरत्नं पुरं नाट्यं भोगास्तस्य दशांगकाः ॥१३१॥ स पोडशसहस्रश्च गणबद्धसुरैः सदा । सेवायां सेव्यते दक्षः प्रमादरहितैर्हितैः ॥१३२॥ विभवेन नरेंद्रोऽसौ तादृशेन युतोपि सन् । शास्त्रार्थक्षुण्णधीश्चके दुर्गतिग्रहनिग्रहं ॥१३३।। स द्वात्रिंशत्सहस्राणां स्मयबाहुल्यमस्मयः । अपाकरोद्विकीर्यैतान् दो कृताहितमंथनः ॥१३४॥ श्रीवक्षलक्षितोरस्के सचतुःषष्टिलक्षणे । षोडशे मनुराजेऽस्मिन् विडोजश्रीविडंबिनि ॥१३५।। स्वायंभुवे महाभागे भरते भरतक्षितिं । नीत्या शासति खंडानां नित्याखंडितपौरुषे ॥१३६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy