SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । ३१५ एकादशः सर्गः अमी पुण्यवतस्तस्य निधयो निधना नव । पालिता निधिपालाख्यैः सुरैर्लोकोपयोगिनः।। १११ ।। शकटाकृतयः सर्वे चतुरक्षाष्टचक्रका: । नवयोजनविस्तीर्णा द्वादशायामसंमिताः ॥ ११२ ॥ ते चाष्टयोजनागाधा बहुवक्षारकुक्षयः । नित्यं यक्षसहस्रेण प्रत्येकं रक्षितेक्षिताः ॥ ११३ ॥ ज्योतिर्निमित्तशास्त्राणि हेतुवादकलागुणाः । शब्दशास्त्रपुराणाढ्याः सर्वे कालनिधौ मताः। । ११४ ।। पंचलोहादयो लोहा नानाभेदाः प्रवर्तिताः । लब्धवर्णैर्विनिर्णेया महाकालनिधौ पुनः ॥ ११५ ॥ धान्यानां सकला भेदाः शालिव्रीहियवादयः । कटुतिक्ता दिभिर्द्रव्यैः प्रणीताः पांडुके निधौ ॥ ११६॥ कवचः खेटकैः खड़ेः शरैः शक्तिशरासनैः । चक्राद्यैरायुधैर्दिव्यैः पूर्णो माणवको निधिः ॥ ११७॥ शयनाशनवस्तूनां विविधानां महानिधिः । सर्पो गृहोपयोग्यानां भोजनानां च भाजनं ॥ ११८ ॥ इंद्रनीलमहानीलवज्रवैडूर्य पूर्वकैः । सर्वरत्ननिधिः पूर्णः सरत्नैः सुमहाशिखैः ॥११९॥ भेरीशंखानकैर्वीणाझल्लरीमुरजादिभिः । आतोद्यैश्चोद्यसंपूर्णैः पूर्णः शंखनिधिर्महान् ॥१२०॥ पट्टचीणमहानेत्रदुकूलवरकंबलैः । वस्त्रैर्विचित्रवर्णाढ्यैः पूर्णः पद्मनिधिः सदा ॥ १२१ ॥ कटकैः कटिसूत्राद्यैः स्त्रीपुंसाभरणैः शुभैः । स पिंगलनिधिः पूर्णो गजवाजिविभूषणैः ॥१२२॥ कामदृष्टिवशास्तेऽमी नवापि निधयः सदा । निष्पादयंति निःशेषं चक्रवर्त्तिमनीषितं ॥ १२३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy