________________
एकादशः सर्गः
हरिवंशपुराणं, । .......... . ११४ इति सैचित्य सत्यज्य स राज्यं तपसि स्थितः । कैलासे प्रतिमायोगं तस्थौ वर्ष सुनिश्चलः॥१८॥ वस्मीकरंध्रनिर्यातैः फणिभिर्मणिभूषितैः । चरणौ रेजतुस्तस्य पुरेव नरपेभृतैः ॥ ९९॥ वल्लभेव पुरा वल्ली माधवी कोमलांगिका । निःशेषांगपरिष्वंगं चके तस्य मुनेरपि ॥ १० ॥ लतां व्यपनयंतीभ्यां खेचरीभ्यां बभौ मुनिः। श्याममूर्तिः स्थिरो योगी यथा मरकताचलः॥१०॥ कषायांतमसौ कृत्वा भरतेन कृतानतिः । केवलज्ञानमुत्पाद्य पारिषद्यः प्रभोरभूत् ॥ १०२ ॥ चतुर्दशमहारत्ननिधिभिनेवभियुतः । निःसपत्नं ततश्चक्री बुभोज वसुधां कृती ॥ १०३ ॥ अदावादशवर्षाणि दानं चासौ यथेप्सितं । लोकाय कृपया युक्तः परीक्षापरिवर्जितं ॥१०४॥ जिनशासनवात्सल्यभक्तिभारवशीकृतः । परीक्ष्य श्रावकान् पश्चाद् यवत्रीयंकुरादिभिः ॥१०५॥ काकिण्या लक्षणं कृत्वा सुरत्नत्रयसूत्रकं । संपूज्य स ददौ तेभ्यो भक्तिदानं कृते युगे ॥१०६॥ ततस्ते ब्राह्मणाः प्रोक्ताः वतिनो भरतादृताः । वर्णत्रयेण पूर्वेण जाता वर्णचतुष्टयी ॥१०७॥ चक्रच्छत्रासिदंडास्ते काकिणीमणिचमणी । सेनागृहप्रतीमाश्वाः पुरोधःस्थपतिस्त्रियः ॥१०८॥ चतुर्दशमहारत्ननिचयाश्चक्रवर्तिनः । प्रत्येकं रक्षिता देवैः सहस्रगुणनैवभुः ॥१०९॥ कालवापि महाकालः पांडुको माणवस्तथा । नःसपेः सर्वरत्नाश्च शंखपद्मश्च पिंगलः ॥११॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org