________________
हरिवंशपुराणं ।
२१३
एकादशः सर्गः। भरतं भुजयंत्रेण दयावान् भुजविक्रमी । निरुद्धयोक्षिप्य संतस्थे रत्नशैलमिवामरः ॥ ८६ ॥ प्रेक्षकैः सुरसंघातैः खेचरैरपि भूचरैः । अहोवीर्यमहो धैर्य साधु साध्विति वर्णितं ।। ८७ ॥ साधु संसाध्य मुक्तेन भरतेन रुषा ततः । अपमृत्युस्मृतं चक्रं सहस्रारं स्थितं करे ॥ ८८ ।। रक्ष्यं यक्षसहस्रेण सहस्रकिरणप्रभं । प्रभ्रम्य चक्रमुन्मुक्तं वधार्थ भ्रातुरुन्मुखं ॥ ८९ ॥ चरमोत्तमदेहस्य तस्याशक्तं विनाशने । देवताधिष्ठितं चक्रं त्रिःपरीत्यागतं पुनः ॥ ९० ॥ ज्येष्ठभ्रातरमालोक्य निणं भुजविक्रमी । कौँ पिधाय हस्ताभ्यां निनिंद श्रियमित्यसौ ॥११॥ स्वच्छानामनुकूलानां संहतानां नृचेतसां । विपर्यासकरी लक्ष्मी धिक् पंकर्द्धिमिवांमसं ॥ ९२ ।। मधुरस्निग्धशीलानां चिरस्थस्नेहहारिणीं । चलाचलात्मिकां धिक् धिक् यंत्रमूर्तिमिव श्रियं ॥१३॥ सर्वतोऽपि सुदुःप्रेक्षां नरेंद्राणामपि स्वयं । दृष्टिं दृष्टिविषस्येव धिक् धिक् लक्ष्मी भयावहां ॥१४॥ मूलमध्यांतदुःस्पर्धा सर्वदाग्निशिखामिव । भास्वरामपि धिग्लक्ष्मी सर्वसंतापकारिणीं ।। ९५ ॥ मर्त्यलोके सुखं तद् यश्चित्तसंतोषलक्षणं । सति बंधुविरोधे हि न सुखं न धनं नृणां ॥ ९६ ।। जनयंति नृणां भोगाः प्रतिकूलेषु बंधुषु । शीतज्वराभिभूतानां शीतस्पर्शा इवासुखं ॥ ९७ ।। ।
' शीतद्वाराभिभूतानां । इति ख पुस्तके।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org