SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराण । २१२ एकादशः सर्गः। नेपालोत्तमवर्णश्च वैदिशांतपकौशलाः। पत्तनो विनिहात्रश्च विंध्यापृष्टनिवासिनः ॥ ७४ ॥ भद्रवत्सविदेहाश्च कुशभंगाश्च सैनवाः । वखंडिक इत्येते मध्यदेशाश्रिता मताः ॥ ७५ ॥ देशानेताननुज्ञातान् गुरुणा भरतानुजाः । दारानिव विधेयांश्च मुमुचुस्ते मुमुक्षवः ॥ ७६ ॥ अथ बाहुबली चके चक्रेशं प्रत्यवस्थितिं । संदधानो मनश्चक्रे चक्रेऽलातमये यथा ॥ ७७॥ भवतो न भुजिष्योऽहमिति प्रेष्य वचोहरान् । पोदनान्निर्ययौ योद्धुमक्षौहिण्या युतो द्रुतं ॥७८॥ चक्रवर्त्यपि संप्राप्तः सैन्यसागररुद्धदिक् । विततापरदिग्भागे चम्बोः स्पर्शस्तयोरभूत् ॥७९॥ उभये मंत्रिणो मंत्रं मंत्रयित्वाहुरीशयोः । माभूजनपदक्षयो धर्मयु द्रमिहास्त्विति ।। ८० ॥ प्रतिपद्य वचस्तो तत् दृष्टियुद्धं प्रचक्रतुः । चिरं निमेषमुक्ताक्षौ दृष्टौ खे खेचरामरैः ॥ ८१ । कनिष्ठोऽत्राजयज्ज्येष्ठं पंचचापशतोच्छृतिं । ऊर्ध्वदृष्टिमधोदृष्टिस्तदुच्चैः पंचविंशतिः ॥ ८२ ॥ ततोऽन्योन्यभुजक्षिप्ततरंगाघातदुःसहं । जलयुद्धमभूद् रौद्रं सरस्यत्र जितोऽग्रजः ॥ ८३ ॥ वलितास्फोटिताटोपं नानाकरणकौशलं । मल्लयुद्धमभूत्पश्चाद् रंगभूमौ चिरं तयोः ॥ ८४॥ पादावष्टंभसंभिन्नहृदया युध्यमानयोः । तयोभियेव वैरणे ररास वसुधा बधूः ॥ ८५ ॥ १ . ' तथा । इति ख पुस्तके। २' वरयो । इति ख पुस्तके । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy