SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ २११ हरिवंशपुराण । एकादशः सर्गः। ततस्ते तन्निमित्तेन मानिनो लब्धबोधयः । स्वराज्यान्यत्यज॑स्त्यागं मन्यमाना महोत्सवं ॥६१॥ प्रपद्य शरणं सर्वे नाभेयं भवभीरवः । मानशल्यविनिर्मक्ताःप्रव्रज्यां मोक्षिणो दधुः॥६२॥ सुकुमारैः कुमारैस्तैभव्यसिंहैः सहेव हि । ज्ञेयानि त्यक्तदेशानां नामानीमानि पंडितैः ॥ ६३ ॥ क्रुरुजांगलपंचालसूरसेनपटच्चराः। तुर्लिंग, काशि, कौशल्य, मद्रकारवृकार्थकाः ॥ ६४ ॥ सोल्वावृष्टत्रिगर्ताश्च कुशाग्रो मत्स्यनामकः । कुणीयात्कोशलो मोको देशास्ते मध्यदेशकाः ॥६५॥ वाहीकात्रेयकांबोजा यवना भीरमद्रकाः । काथतोयश्च शूरश्च वाटवानश्च कैकयः॥ ६६ ॥ गांधारः सिंधुसौवीरभारद्वाजद शोरुकाः प्रास्थालास्तीर्णकर्णाश्च देशा उत्तरतः स्थिताः ॥६७॥ खड़ांगारकपौंड्रश्च मल्लप्रवकमस्तकाः। प्रायोतिषश्च वंगश्च मगधो मानवर्तिकः ॥ ६८॥ मलदो भार्गवश्वामी प्राच्यां जनपदाः स्थिताः। वाणमुक्तश्च वैदर्भाःमाणवः सककापिराः ॥६९॥ मूलकाश्मकदांडीककलिंगासिककुंतलाः । नवराष्ट्रो माहिषकः पुरुषो भोगवर्धनः ॥७॥ दाक्षिणात्या जनपदा निरुच्यते स्वनामभिः । माल्यकल्लीवनोपांतदुर्गमूरिकवुकाः ॥ ७१ ॥ काक्षिनासारिकागर्ताः ससारस्वततापसाः। माहेभो भरुकच्छश्च सुराष्ट्रो नर्मदस्तथा ॥७२॥ एते जनपदाः सर्वे प्रतीच्या नामभिः स्मृताः। दशार्णकेति किष्कंधत्रिपुरावर्त्तनैषधा ॥ ७३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy