SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराण। एकादशः सर्गः। वृषभस्य सुतो भोऽहं चक्री भरत इत्यसौ । प्रवाच्य विजयार्द्धस्य वेदिकामगमत् प्रभुः ॥ ४८ ।। बुद्ध्वोपवासिनं तत्र श्रेणिद्वयनिवासिनौ । नमिश्च विनमिश्चोभौ गंधाराद्यः समागतौ ॥ ४९॥ स्त्रीरत्न प्रतिगृह्याभ्यां सुभद्राख्यं खगैर्नतः । गंगानुवेदिकं गत्वा भक्तमष्टममास्थितः ॥५०॥ गंगादेवी विदित्वा तं गंगाकुटनिवासिनी । हेमकुंभसहस्रेण कृत्वा तदभिषेचनं ।। ५१ ॥ रत्नसिंहासने तस्मै पादपीठयुते ददौ । विजयार्द्धकुमारोऽपि तस्थौ चक्रेशशासने ॥५२॥ अष्टादशसहस्राणि म्लेच्छक्षितिभृतां ततः । वशीकृत्यात्तसद्रत्नः खंडकापातमाप सः॥५३ ॥ उपोषिताष्टमायास्मै नाटयमालोऽत्र दत्तवान् । नानारूपं स नेपथ्यं विद्युदाभे चकुंडले ।।५४॥ अयोध्योद्घाटितेनासी गुहाद्वारेण पूर्ववत् । प्रविश्य निर्गतः सिंधोरिव गांगेन सेनया ॥ ५५ ॥ विजित्य भारतं वर्ष स षट्खंडमखंडितं । षष्टिवर्षसहस्रेस्तु विनीतां प्रस्थितः कृती ॥ ५६ ॥ चक्र सुदर्शनेऽयोध्यामविशत्यथ चक्रभृत् । बुद्धिसागरमप्राक्षीत् संदिहानः पुरोधसं ।। ५७॥ साधिते भारते वास्ये चक्ररत्नमिदं किमु । दिव्यं विशति नायोध्यां योध्याः संवि न के च नः॥५८॥ पुरोधाः सोभ्यधाद्भर्ततरो भवतो न तु ।ये महाबलसंपन्नास्ते न श्रृण्वंति शासनं ॥ ५९॥ तदाकर्ण्य वचस्तूर्ण तेषां प्रेषयति स्म सः । स सामोपप्रदानादि नीतिपूर्व वचोहराल् ॥ ६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy