________________
हरिवंशपुराणं ।
२०९
एकादशः सर्गः ।
वृष्टि ती सतगिर्जिताशनं । चर्मरत्नमधश्चक्रे छत्ररत्नं तथोपरि ।। ३५ ।। द्विषयोजनविस्तीर्णा तरंती साऽप्सु वाहिनी । अंडायते स्म सप्ताहं कांदिशीकत्वमागता ||३६|| ततां निधिपतिः क्रुद्धो गणबद्धाभिधानकान् । देवानाज्ञापयत् तैस्तैर्ध्वस्ता मेघमुखाः सुराः ||३७|| ततो मेघमुखैम्र्लेच्छाः प्रोक्ताः संहृतवृष्टिभिः । चक्रिणं शरणं जग्मुरादाय वरकन्यकाः ॥ ३८ ॥ भीतानामभयं दत्त्वा स तेषां शासनैषिणां । आयादायासनिर्मुक्त: सिंधुनद्यनुवेदिकं ॥ ३९ ॥ सिंधुदेव्यभिषिच्यैनं सिंधुकूटाग्रवासिनी । ददौ भद्रासने भद्रे पादपीठोपशोभिते ॥ ४० ॥ चक्रवर्ती चं मूले संस्थाप्य हिमवद्गिरेः । कृताष्टमोपवासोऽसौ दर्भशय्यामधिष्ठितः ॥ ४१ ॥ कृततीर्थोदक स्नानः कृतकौतुकमंडलः । आरूढाश्वरथो धन्वी चक्रायुधपुरःसरः ॥ ४२ ॥ क्षुल्लकं हिमवत्कूटं यत्र तत्र गतः शरी । वैशाखं स्थानमास्थाय वभाण रणदक्षिणः || ४३ ॥ भो भो नागसुपर्णाद्याः शासनं शृणुताशु मे । देशस्था इत्यतश्चापमाकृष्य शरमाक्षिपत् ||४४ ॥ पपाताशनिनिर्घोषो योजने द्वादशे शरः । हिमवत्कूटवासी तं सुरो दृष्ट्वा समागमद् ||४५|| दिव्यामोषधिमालां स दिव्यं च हरिचंदनं । दत्त्वा संपूज्य तं यातः शासनैषी विसर्जितः ॥४६॥ आगत्य चक्रवर्ती च ततो वृषभपर्वतं । तत्रालिखन्निजं नाम काकण्या स परिस्फुटं ॥ ४७ ॥
१४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org