________________
हरिवंशपुराणं।
२०८
एकादशः सर्गः। तिलकाद्यानि दिव्यानि भूषणानि चतुर्दश । प्रदाय प्रणिपत्यासौ तवाहमिति यातवान् ॥ २२॥ सेनापतिरयोध्यस्य राजराजस्य शासनात् । अश्वरत्नं शुकच्छायं कुमुदामेलकाभिधं ॥ २३ ॥ आरुह्य दंडरत्नेन प्रचंडेन पराङ्मुखः। गुहाद्वारकवाटानि प्रताड्यानुपलायितः ॥ २४ ॥ उद्घाटिते गुहाद्वारे षण्मासैः स निरूष्मणि । सेनयाऽविशदारुह्य गजं विजयपर्वतं ॥ २५ ॥ तत्रोन्मग्नजला नाम्ना सनिमग्नजलापगा। महानद्योस्तयोस्तीरे गुहामध्येऽमुचच्चमः॥ २६ ॥ नित्यांधकारमुद्वास्या काकणीमणिरोचिषा । स्कंधावारं स्थितं तत्र नक्तंदिवमतंद्रितं ॥ २७॥ कामदृष्टिगृहपती रत्नभद्रमुखो द्रुतं । स्थपतिश्च स्थिरस्ताभ्यां संक्रमः सरितोः कृतः ॥ २८ ॥ उत्तीर्य संक्रमाक्रांत्या सद्यो नद्योर्ययौ चमूः । द्वारमुत्तरमुद्घाट्य प्रागिवोत्तरभारतं ॥ २९ ॥ म्लेच्छराजसहस्राणि वीक्ष्यापूर्वेविरूथिनीं । क्षुभितान्यभिगम्याशु योधयामासुरश्रमात् ।। ३०॥ तताक्रुद्धो युधि म्लेच्छैरयोध्यो दंडनायकः । युद्ध्वा निर्धय तानाशु दधे नामार्थसंगतं ॥३१॥ भयान्म्लेच्छास्ततो जाताः शरणं कुलदेवताः । घोरान्मेघमुखान्नागान् दर्भशय्याधिशायिनः ॥३२॥ ततो मेघमुखा देवाः खमापूर्य युधि स्थिताः । युद्धा जयकुमारस्तैलेंभे मेघस्वराभिधां ॥ ३३ ॥ पुनर्मेघमुखा घोरै धैरापूर्य पुष्करं । ववृधुर्मेधमात्राभिर्धाराभिः सैन्यमस्तके ॥ ३४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org