________________
हरिवंशपुराणं ।
२०७
एकादशः सर्गः ।
चक्रवर्तिनमुत्पन्नं ज्ञात्वा स्वं पुण्यमल्पशः । निंदित्वा भग्नमानोऽसौ रत्नपाणिरुपागतः ॥ ९ ॥ हारं स पृथिवीसारं मुकुटं रत्नकुंडले । उपनीय सुरत्नानि वस्त्रतीर्थोदकानि तु ॥ १० ॥ साधि किं करवाणीश देह्यादेशं बुधोऽवदत् । मुक्तस्तेन गतः स्थानं निर्ययौ भरतोऽप्यतः ॥ ११ ॥ भूतव्यंतर संघातान् दाक्षिणात्यान् महाबलान् । साधयन् सागरद्वारं विजयं तमवाप सः || १२ || सुरं वरतनुस्तत्र यथा मागधमाह्वयन् । चूडामणिमसौ दिव्यं ग्रैवेयकमुरश्छदं ॥ १३ ॥ वीरांगदे च कटके कटीवर्त च सूत्रकं । उपनीय प्रणम्येशं विमुक्तं किंकरो ययौ ॥ १४ ॥ पाश्चात्यं साधयन् विश्वं दधद्भूपालमंडलं । अनुवेदिकमागच्छत् सिंधुद्वारं स बंधुरं ।। १५ ।। प्रभासममरं तत्र गंगाद्वारविधानतः । नमयित्वा वशे चक्रे चक्रेशः शक्रविक्रमः ॥ १६ ॥ लेभे संतानकं तस्मान्माल्यदामकमुत्तमं । मुक्ताजालं च मौलिं च रत्नचित्रं च हेमकं ॥ चक्ररत्नानुमार्गं स विजयार्द्धस्य वेदिकां । प्राप्तश्चक्रधरो दध्यौ सोपवासो गिरेः सुरं ॥
१७ ॥
१८ ॥
स्वावधिकात्प्राप्तः सोऽभिषिच्य महर्द्धिभिः । विजयार्द्धकुमाराख्यो देवः प्रणतिपूर्वकं ॥ १९ ॥ भृंगार कुततोयं च सिंहासनमनुत्तमं । छत्रचामरयुग्मानि दत्वा तेऽहमिति न्यगात् ॥ २० ॥ तत्र चक्रमहं कृत्वा स तमिश्रगुहामुखं । प्रापतु कृतमालस्तं सुरः प्राप ससंभ्रमः ॥ २१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org