________________
. २०६
हरिवंशपुराणं ।
एकादशः सर्गः। समय॑ साकेतमितः प्रमोदवानुदारवंशस्थनृपैः परिष्कृतः ॥ १६३ ॥ इत्यरिष्टनोमपुराणसंग्रहे हरिवंशे जिनसेनाचार्यकृतौ प्रथमतर्थिकरधर्मतीर्थप्रवर्तनो नाम दशमः सर्गः ॥ १० ॥
___ एकादशः सर्गः। अथ कृत्वात्मजोत्पत्ती भरतः सुमहोत्सवं । कृतचक्रमहोऽयासीत् पखंडविजिगीषया ॥१॥ चतुरंगमहासेनो नृपचक्रेण संगतः। अग्रप्रस्थितचक्रेण युक्तो दिक्चक्रिणां नृणां ॥ २॥ गंगानुकूलमागत्य गंगासागरसंगताः । गंगाद्वारेऽष्टमं सद्वागंगाद्यकृतभक्तकं ॥ ३ ॥ द्वारेणोद्घाटितेनासौ प्रविश्याश्वयुगाश्रित । अजितंजितनामानं रथमारुह्य वेगिनं ॥ ४ ॥ अवगाह्य महाबाहुर्जानुदघ्नं महोदधिं । वज्रकांडधनुःपाणिवैशाखस्थानमास्थितः ॥ ५॥ सदृष्टिमुष्टिसंधानविधानेषु विशारदः । स्वनामांकममोघाख्यं मुमोचाशुगमाशुगं ॥ ६॥ शरः पपात वज्राभा गत्वा द्वादशयोजनीं । प्रासादे मागधस्याशु प्रविशन्मुखरांवरः ॥७॥ हृदयेन समं तस्मिन् प्रासादे चलिते सुरः । संभ्रांतः स तमालोक्य चक्रिनामांकितं शरं ।। ८ ॥ . १ उपवासत्रयं 'तेला ' कृत्वा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org