________________
हरिवंशपुराणं।
देशमः सर्गः। देशप्रत्यक्षमेव स्यान्मनःपर्यय इत्यपि । विपुलर्जुमतिप्रख्याः सोऽवधः सूक्ष्मगोचरः॥१५३ ॥ सर्वप्रत्यक्षमत्यं स्यात्केवलावरणक्षयात् । अक्षयं केवलज्ञानं केवलं विश्वगोचरं ॥१५४॥ । परोक्षस्य प्रमाणस्य हानोपादानधीः फलं । प्रत्यक्षस्य तथोपेक्षा प्रागमोहफलं द्वयं ॥१५५।। पारंपर्येण मोक्षस्य हेतुनिचतुष्टयं । साक्षादेव भवत्येकं केवलज्ञानमव्ययं ।१५६।। प्रमाणप्रमितार्थानां श्रद्धानं दर्शनं शुभं । शुभक्रिया सुवृष्टिश्च चारित्रमिति वर्ण्यते ॥१५७।। सम्यक्त्वज्ञानचारित्रत्रितयं मोक्षसाधनं । श्रद्धेयं चाप्यनुष्ठेयं परसंपदमिच्छता ॥१५८।। इतोऽन्यदुत्तरं नास्ति नासीन्नापि भविष्यति । मुक्त्यंगमित्यवेतव्यमिति सारसमुच्चयः ॥१५९॥ इत्याद्यस्य जिनेंद्रस्य प्रपीय वचनौषधं । संदेहांतकनिर्मुक्ता मुक्तेवाभाज्जगत्त्रयी ॥१६०॥ गृहीतरत्नत्रयभूषणा पुरा जना बभूवुः स्थिरभावनास्तदा । परे यतिश्रावकधर्मदीक्षिताः कृते युगे युक्तगुणाश्चकासिरे ॥ १६१ ।। युतं च संधन चतुर्विधेन तं जगद्विहाराभिमुखं जिनेश्वरं। विशुद्धसम्यक्वधियश्चतुर्विधाः प्रणम्य जग्मुर्विबुधा निजास्पदं ॥ १६२ ॥ गृहाश्रमी श्रावकमुख्यतां मृतो जिनेश्वरं तं भरतेश्वरो नृपः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org