________________
हरिवंशपुराणं।
२०४
दशमः सर्गः। लक्षाशीतिसहस्राणि चतुर्भिश्च चतुःशती। सप्तपष्टिश्च निर्दिष्टाः कोटीकोट्य इमाः स्फुटाः ॥१४१॥ चत्वारिंशचतुर्लक्षास्त्रिसप्ततिशतानि च । सप्ततिश्च तथा ज्ञेया इमाः कोटयः स्फुटीकृताः।।१४२॥ सपंचनवतिर्लक्षाः सपंचाशत्सहस्रकं । सहस्रं षट्शती वर्णा वर्णाः पंचदशापि ते ॥ ४३॥ क्षयोपशमभावे च श्रुतावरणकर्मणः । मतिपूर्व परोक्षं स्यादनंतविषयं श्रुतं ॥१४४॥ इंद्रियानिद्रियोत्थं स्यान्मतिज्ञानमनेकधा । परोक्षमर्थसान्निध्ये प्रत्यक्षं व्यवहारिकं ॥१४॥ क्षयोपशमसापेक्षं निजावरणकर्मणः । अवग्रहहावायाख्या धारणा च चतुर्विधः ॥१४६॥ इंद्रियानिद्रियैः षभिश्चत्वारोऽवग्रहादयः । भवंति गुणिता भेदाश्चतुर्विंशतिरेव ते ॥१४७|| शब्दगंधरसस्पर्शव्यंजनावग्रहयुताः । चाष्टाविंशतिरुक्तास्ते द्वात्रिंशन्मूलभंगकैः ॥१४८॥ बह्वायैः षड्भिरभ्यस्तास्ते त्रयोराशयश्चतुः । चत्वारिंशं शतं चाष्टाषष्टिः द्वानवतं शतं ॥१४९॥ अभ्यस्तासेतरैस्तैस्तैरष्टाशीतं शतद्वयं । षट्त्रिंशत् त्रिशती च स्यादशीत्याऽसौ चतुयुता।।१५०॥ मतिज्ञानविकल्पोऽयं तावत्स्वावृत्तिकर्मणः । क्षयोपशमभेदेन मिद्यमानः सुदृष्टिषु ॥१५१॥ देशप्रत्यक्षमुद्भूतो जीवसिद्धौ त्रिधा विधिः । देशः सर्वश्च परमः पुद्गलावधिरिष्यते ।।१५२॥ ।
१ चतुश्चत्वारिंशं शतं १४४ । २ उभयदीपकमिदं। ३ शतं चाष्टाषष्टिः १६८ । ४-१९२ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org