SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं। २०३ दशमः सर्गः। तत्र सामायिकं नाम शत्रुमित्रसुखादिषु । रागद्वेषपरित्यागात्समभावस्य वर्णकं ।। १२९ ।। जिनस्तवविधानाख्यः स चतुर्विंशतिस्तवः । वर्णको वंदनावंद्यवंदना द्विविधादिना ॥ १३० ॥ द्रव्ये क्षेत्रे च कालादौ कृतावद्यस्य शोधनं । प्रतिक्रमणमाख्याति प्रतिक्रमणनामकं ॥ १३१॥ दर्शनज्ञानचारित्रतपोवीयौपचारिकं । पंचधा विनयं वक्ति तद् वैनयिकनामकं ॥ १३२ ॥ चतुः शिरत्रिद्विनतं द्वादशावर्तमेव च । कृतिकर्माख्यमाचष्टे कृतिकर्मविधि परं ॥ १३३ ॥ दशवकालिकं वक्ति गोचरग्रहणादिकं । उत्तराध्ययनं वीरनिर्वाणगमनं तथा॥१३४ ॥ तत्कल्पव्यवहाराख्यं प्राह कल्पं तपस्विनां । अकल्प्यसेवनायां च प्रायश्चित्तविधि तथा॥ १३५ ॥ यत्कल्पाकल्पसंज्ञ स्यात् तत्कल्पाकल्पद्वयं पुनः। महाकल्पं पुनर्द्रव्यक्षेत्रकालोचितं यतेः ॥१३६॥ देवोपपादमाचष्टे पुंडरीकाक्षमप्यतः । देवीनामुपपादं तु पुंडरीकं महादिकं ॥१३७॥ निषधकाख्यमाख्याति प्रायश्चित्तविधिं परं । अंगवाह्यश्रुतस्यायं व्यापारः प्रतिपादितः ।।१३८॥ एकमष्टौ च चत्वारि चतुः षट् सप्तभिश्चतुः । चतुः शून्यं च सप्तत्रिसप्तशून्यं नवापि च ॥१३९॥ पंच पंचैककं षट् च तथैकं पंचतत्त्वतः । समस्तश्रुतवर्णानां प्रमाणं परिकीर्तितं ॥१४॥ - १-१८४४६७४४०७३७०९५५१६१५ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy