SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । २०२ दशमः सर्गः। ज्योतिर्गणस्य संचारं त्रिषष्टिपुरुषाश्रितं । सुरासुरेंद्रकल्याणं वर्णयत्यतिविस्तरं ।। ११६॥ स्वप्नांतरिक्षभौमांगस्वरव्यंजनलक्षणं । छिन्नमित्यष्टधा भिन्नं निमित्तं शाकुनं तथा ॥११७।। यत्त्रयोदशकोटीभिः पदानां समधिष्ठितं । प्राणावायाख्यपूर्व तत्प्रणीतं द्वादशं परं ॥११८॥ यत्र कायचिकित्सादिरायुर्वेदोष्टधोदितः । प्राणापानविभागादिभूतकर्मविधिस्तथा ॥११९॥ क्रियाविशालपूर्व तु नवकोटीपदात्मकं । छदःशब्दादिशास्त्राणि तत्र शिल्पकला गुणाः ॥१२०॥ पंचाशत्पदलक्षाभिः कोट्यो द्वादश यत्र तु । पूर्वे चतुर्दशे लोकविंदुसारे हि तत्र च ॥१२१॥ अंकराशिविधिश्चाष्टव्यवहारविधिस्तथा । परिकर्मविधिःप्रोक्तः समस्तश्रुतसंपदा ॥१२२॥ जलस्थलगताकाशरूपमायागता पुनः । चूलिका पंचधान्वर्थ संज्ञा भेदवती स्थिता ॥१२३॥ द्विकोट्यो नवलक्षाश्च नवाशीतिसहस्रकैः । द्वे शते पदसंख्यानां पंचानां च पृथक् पृथक् ॥१२४॥ चतुर्दशप्रकारं स्वादंगवाह्यं प्रकीर्णकं । ग्राह्यं प्रमाणमेतस्य प्रमाणपदसंख्यया ॥ १२५ ॥ अष्टावक्षरकोटयस्तु लक्षेकाष्टसहस्रकैः । शतं च पंचसप्तत्या तत्रैकोऽक्षरसंग्रहं ।। १२६ ॥ त्रयोदशसहस्राणि पंचशत्येकविंशतिः। कोटी च पदसंख्येयं वर्णाः सप्तैव वर्णिताः ॥ १२७ ॥ पंचविंशतिलक्षाश्च त्रयस्त्रिंशत् शतानि च । अशीतिः श्लोकसंख्येयं वर्णाः पंचदशात्र च ॥१२८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy