________________
२०१
हरिवंशपुराणं।
दशमः सर्गः। चेतनाचेतनद्रव्यसंनिवेशाविभागकृत् । वचः संयोजनासत्यं क्रौंचव्यूहादिगोचरं ॥ ०३॥ यदायोऽनायेनानात्वनानाजनपदेष्विह । चतुर्वर्गकरं वाक्यं सत्यं जनपदाश्रितं ॥१०४॥ यद्यामनगराचारराजधर्मोपदेशकृत् । गणाश्रमपदोद्भासि देशसत्यं तु तन्मतं ॥१०५॥ छबस्थे द्रव्ययाथात्म्यज्ञानं वेकल्यवत्यपि । प्रासुकाप्रासुकत्वेऽपि भावसत्यं वचः स्थितं॥१०६॥ दव्यपर्यायभेदानां याथाम्यप्रतिपादकं । यत्तत्समय सत्यं स्यादागमार्थपरं वचः ॥१०७।। कोट्यः षडिशतिर्यत्र पदानां परिवर्णिताः । आत्मप्रवादपूर्वेऽपि भूयो युक्तिपरिग्रहे ॥१०८॥ तत्र कर्तृत्वभोक्तृत्वनित्यताऽनित्यतादयः । आत्मधर्मा निरूप्यते तद्भेदाश्च सयुक्तिकाः ॥१०९॥ साशीतिपदलकपदकोटीप्रमाणकं । पूर्व कर्मप्रवादाख्यं कर्मबंधस्य वर्णकं ॥११०।। लक्षाश्चतुरशीतिस्तु पदानां यत्र वर्णिताः । पूर्व नवममाख्यातं प्रत्याख्यानं तदाख्यया ।।१११॥ प्रमिताप्रमितं तत्र द्रव्यभावसमाश्रयं । प्रत्याख्यानं समाख्यातं यच्च प्रावण्यवर्धनं ॥११२॥ कोटी च दशलक्षाश्च यत्पदानां प्रवर्तिता । तद्विद्यानुप्रवादाख्यं पूर्व दशममत्र च ॥११३॥ लघ्वोऽगुष्ठप्रसेनाद्या विद्याः सप्तशतानि तु । रोहिण्याद्या महाविद्याः प्रोक्ताःपंचशतानि च॥११४।। कोव्यः षडिंशतियस्मिन् पदानां सुप्रतिष्ठिताः । कल्याणनामधेयं तत् पूर्वमन्वर्थनामकं ॥११५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org