________________
हरिवंशपुराणं ।
२००
दशमः सर्गः पूर्व सत्यप्रवादाख्यं पदकोटीकषट्पदं । भाषा द्वादशधा प्राह दशधा सत्यभाषणं ॥११॥ हिंसाधकर्तुः कर्तुर्वा कर्त्तव्यमिति भाषणं । अभ्याख्यानं प्रसिद्धो हि वागादिकलहः पुनः ॥९२॥ दोषाविष्करणं दुष्टैः पश्चात्पैशून्यभाषणं । भाषाबद्धप्रलापाख्या चतुर्वर्गविवर्जिताः ॥९३॥ रत्यरत्यभिधे वोभे रत्यरत्युपपादिके । आसज्यते जयार्थेषु श्रोता सोपाधिवाक् पुनः ॥९४॥ वंचनाप्रवणं जीवं कर्ता निःकृतिवाक्यतः । न नमत्यधिकेष्वात्मा सा च प्रणतिवागभूत् । ९५॥ या प्रवर्त्तयति स्तये मोघवाक् सा समीरिता । सम्यग्मार्गे नियोक्त्री या सम्यग्दर्शनवागसौ।।९६॥ मिथ्यादर्शनवाक् सा या मिथ्यामार्गोपदेशिनी । वाचो द्वादशभेदाया वक्तारो द्वींद्रियादयः।।९७॥ दशधा सत्यसद्भावे नामसत्यमुदाहृतं । इंद्रादिव्यवहारार्थ यत् संज्ञाकरणं हि तत् ॥९८॥ यदर्थासंविधानेऽपि रूपमात्रेण भाष्यते । तद्रूपसत्यं चित्रादिपुरुषादावचेतने ॥१९॥ आकारेणाक्षपुस्तादौ सता वा यदि वाऽसता । स्थापित व्यवहारा) स्थापनासत्यमुच्यते ॥१०॥ प्रतीत्या वर्ततं भावान् यदीपशमकादिकान् । प्रतीत्यसत्यमित्युक्तं वचनं तद्यथाऽगमं ॥१०१॥ सामग्रीकृतकायस्य वाचकत्वेकदेशतः । वचः संवृतिसत्यं स्यात् भेरीशब्दादिकं यथा ॥१०२॥
१ षडधिकैककोटिपदं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org