SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । दशमः सर्गः । 1 अध्रुवं संप्रणध्यंतं कल्पाश्चार्थश्च नामतः । भौमावयाद्यमित्यन्यत् तथा सर्वार्थकल्पकं ॥ ७९ ॥ निर्वाणं च तथा ज्ञेयाऽतीतानागतकल्पता । सिद्धयाख्यं चाप्युपाध्याख्यं ख्यापितं वस्तु चांतिमं ८० वस्तुनः पंचमस्यात्र चतुर्थे प्राभृते पुनः । कर्मप्रकृतिसंज्ञे तु योगद्वाराण्यमूनि तु ॥ ८१ ॥ कृतिश्च वेदनास्पर्शः कर्माख्यं च पुनः परं । प्रकृतिश्च तथैवान्यद् बंधनं च निबंधनं ॥ ८२ ॥ प्रक्रमोपक्रमौ प्रोक्ताबुदयो मोक्ष एव च । संक्रमश्रा तथा लेश्या लेश्याकर्म च वर्णितं ॥ ८३ ॥ लेश्यायाः परिणामश्च सातासातं तथैव च । दीर्घह्रस्वमपि तथा भवधारणमेव च ॥ ८४ ॥ पुद्गलात्माभिधानं च तन्निधत्तानिधत्तकं । सनिकाचितमित्यन्यदनिकाचितसंयुतं ॥ ८५ ॥ कर्मस्थितिकामित्युक्तं पश्चिमं स्कंध एव च । समस्तविपयाधीना बोध्याल्पबहुत्ता तथा ॥ ८६ ॥ अन्येषामपि पूर्वाणां वस्तुषु प्राभृतेषु च । अनुयोगेषु चान्येषु भेदो ग्राह्यो यथागमं ॥ ८७ ॥ पदानां सप्ततिर्लक्षा यत्र वर्णयति स्फुटं । तद्वीर्यानुप्रवादाख्यं वीर्यं वीर्यवतां सतां ॥ ८८ ॥ अस्ति नास्तिप्रवादं च यत्पष्टिपदलक्षकं । जीवाद्यस्तित्वनास्तित्वं स्वपरादिभिराह तत् ||८९|| एकोनपदकोटीकं यत्तद्वर्णयति श्रुतं । पूर्वं ज्ञानप्रवादाख्यं ज्ञानं पंचविधं गुणैः ॥९०॥ Jain Education International १९९ For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy