________________
हरिवंशपुराणं ।
१९८
दशमः सर्गः। पदलक्षा द्विपंचाशत् पत्रिंशत्सहस्रकाः । प्रज्ञप्तौ संति यस्यां सा द्वीपसागरवर्णिनी ॥ ६६ ॥ लक्षाश्चतुरशीति सपत्रिंशत्सहस्रकाः । पदानां प्रवदत्येषा व्याख्याप्रज्ञप्तिरुच्यते ॥ ६७ ॥ रूपिद्रव्यमरूपं च भव्याभव्यात्मसंचयं । व्याख्याप्रज्ञप्तिराख्याति समस्तं सा सविस्तरं ॥६८॥ पदाष्टाशीति लक्षा हि सूत्रे चादावबंधकाः । श्रुतिस्मृतिपुराणार्थो द्वितीये सूत्रिताः पुनः ॥६९।। तृतीये नियतिः पक्षश्चतुर्थे समयाः परे । सूत्रिता ह्यधिकारे ते नानाभेदव्यवस्थिताः॥ ७० ॥ पदैः पंचसहस्रेस्तु प्रयुक्ते प्रथम पुनः । अनुयोगे पुराणार्थस्त्रिषष्टिरुपवर्ण्यते ॥ ७१ ॥ चतुर्दशविधं पूर्व गतं श्रुतमुदीयते । प्रतिपूर्व च वस्तूनि ज्ञातव्यानि यथाक्रमं ॥ ७२ ।। दश चतुर्दशाष्टौ चाष्टादश द्वादश द्वयोः । दशषडिंशतिस्त्रिंशत्तत्तत्पंचदशैव तु ॥ ७३ ॥ दशैवोत्तरपूर्वाणां चतुर्णा वर्णितानि वै । प्रत्येकं विंशतिस्तेषां वस्तूनां प्राभूतानि तु ॥ ७४ ॥ पूर्वमुत्पादपूर्वाख्यं पदकोटप्रिमाणकं । द्रव्यध्रौव्यव्ययोत्पादत्रयव्यावर्णनात्मकं ॥ ७५ ॥ लक्षाः षण्णनतिर्यत्र पदानां तेन दृष्टयः । वर्ण्यतेऽग्रायणीयेन स्वामताग्रपदानि तु ॥ ७६ ॥ अग्रायणीयपूर्वस्य यान्युक्तानि चतुर्दश । विज्ञातव्यानि वस्तूनि तानीमानि यथाक्रमं ॥७७ ॥ पूर्वातमपरांतं च ध्रुवमध्रुवमेव च । तथा च्यवनलब्धिश्च पंचमं वस्तु वर्णितं ॥ ७८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org