________________
हरिवंशपुराणं।
१९७
दशमः सर्गः। पदार्थान्नव को वेत्ति सदायैः सप्तभंगकैः । इत्याद्यनेकसंदृष्टया त्रिषष्टिरुपचीयते ॥५४ ॥ सज्जीवभाववित्को वा को वाऽसज्जीवभाववित् । सदसज्जीवभावज्ञः कश्चावक्तव्यजीववित्।।५५।। सदवक्तव्यजीवज्ञोऽसदवक्तव्यविच्च कः । सदसत्तमवक्तव्यं को वा वेत्तीति यो जनः ॥ ५६ ॥ सद्भावोत्पत्तिविद् वा कोऽसद्भावोत्पत्तिविच्च कः। उभयोत्पत्तिवित्कश्चाऽवक्तव्योत्पत्तिविच्च कः॥५७॥ भावमात्राभ्युपगमैर्विकल्पैरेभिराहतैः । त्रिषष्टिः सप्तषष्टिः स्यादज्ञानिकमतात्मिका ॥ ५८ ॥ विनयः खलु कर्तव्यो मनोवाक्कायदानतः । पितृदेवनृपज्ञानिबालवृद्धतपस्विषु ॥ ५९ ॥ मनोवाकायदानानां मात्राद्यष्टकयोगतः । द्वात्रिंशत्परिसंख्याता वैनयिक्यो हि दृष्टयः॥ ६० ॥ इत्येवं वदतो दृष्टिं दृष्टिवादस्य पंच ते । परिकर्मादयो भेदालिकांता व्यवस्थिताः ॥ ६१॥ पंच प्रज्ञप्तयः प्रोक्ताः परिकर्मणि ताः पुनः । व्याख्याप्रज्ञप्तिपर्यंताश्चंद्रसूर्यादिनामिकाः॥६२ ॥ षट्त्रिंशत्पदलक्षाभिः सहस्रैः पंचभिः पदैः । चंद्रप्रज्ञप्तिराचष्टे चंद्रभोगादिसंपदां ॥ ६३ ॥ पदानां पंचलक्षाभिः सहस्रस्त्रिभिरेव च । सूर्यप्रज्ञप्तिराख्याति सूर्यस्त्रीविभवोदयं ॥ ६४ ॥ सहस्रैः पंचविंशत्या लक्षाभिस्तिसृभिः पदैः । जंबूद्वीपस्य सर्वस्वं तत्प्रज्ञप्तिः प्रभाषते ।। ६५ ।।
१ । इत्याज्ञानिक ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org