________________
हरिवंशपुराणं ।
१९६
दशमः सर्गः। स्त्रीपुंनपुंसकैस्तिर्यग्नसुरैरष्ट ते कृताः । शारीराचेतनत्वाभ्यामुपसर्गा दशोदिताः ॥ ४२ ॥ आक्षेपण्यादयो यत्र प्रश्नव्याकरणे कथाः । पदलक्षास्त्रिनवतिः सहस्राण्यत्र षोडश ॥ ४३ ॥ अंगं विपाकसूत्रं यद्विपाकं कमणोऽवदत् । कोटी चतुरशीतिश्च पदलक्षा इहोदिताः ॥ ४४ ॥ शतं कोटीभिरष्टाभिः सहाष्टाः पष्टिलक्षकाः । षपंचाशत्सहस्राणि पदानां पंच यत्र हि ॥ ४५ ॥ दृष्टिवादप्रमाणं स्यादेतत्तत्र सविस्तारं । शतानि त्रीणि वय॑ते त्रिपष्टयाधिकदृष्टयः ॥ ४६॥ क्रियातश्चाक्रियातोऽन्या अज्ञानाद्विनयात्पराः । वदंत्यो दृष्टयः सिद्धिं ताश्चतुर्धा व्यवस्थिताः।।४७॥ सक्रियाः शतधाऽशीत्या चतस्रोऽशीतिरक्रियाः। अज्ञानात्सप्तपष्टिस्ता द्वात्रिंशाद्विनयाश्रताः ॥४८॥ नियतिश्च स्वभावश्च कालो देवं च पौरुषं । पदार्था नव जीवाद्या स्वपरौ नित्यतापरौ ॥ ४९ ।। पंचभिनियतिपृष्टैश्चतुर्भिः स्वपरादिभिः । एकैकस्यात्र जीवादेोगेऽशीत्त्युत्तरं शतं ॥ ५० ॥ । नियत्याऽस्ति स्वतो जीवः परतो नित्यतोऽन्यतः। स्वभावात्कालतो दैवात पौरुवाच्च तथोत्तरे॥५१॥ सप्तर्जावादितत्त्वानि स्वतश्च परतोऽपि च । प्रत्येकं पौरुषांतेभ्यो न संतीति हि सप्ततिः ॥५२॥ नियतेः कालतःस्वांतो न तानीति चतुर्दशें । सप्तत्या तत्समायोगेऽशीतिश्चतुरधिष्ठिताः ॥५३॥
१ 'वसंतीति हि सप्ततिः' इति ख पुस्तके । २ 'नियतः कालतः सप्त तत्त्वानीति चतुर्दशः इति ख पुस्तके।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org