________________
हरिवंशपुराणं ।
दशमः सर्गः
चत्वारिंशत्सहस्त्रैश्च द्विसहस्रैः पदैर्युतं । स्थानं स्थानांतरं जंतोर्वक्त्येकादिदशोत्तरं ॥ २९ ॥ चतुःषष्टिसहस्त्रैर्यत्पदैश्च पदलक्षया । लक्षितं समवायांगं वक्ति द्रव्यादितुल्यतां ॥ ३० ॥ धर्माधर्मैकजीवानां लोकाकाशस्य वा यथा । प्रदेशा द्रव्यतस्तुल्याः समवायेन वर्णिताः ||३१|| सिद्धिसीमंत कवख्यं विमानं नरलोकजं । प्रमाणं सममित्युक्तं तत्रैव क्षेत्रतस्तथा ॥ ३२ ॥ उत्सर्पिण्यवसर्पिण्योः कालतः समतोदिता । भावतोऽनंतयोस्तत्र ज्ञानदर्शनयोरपि ॥ ३३ ॥ पदानां तु सहस्राणि यत्राष्टाविंशतिस्तथा । लक्षयोर्द्वयमाख्यातं व्याख्याप्रज्ञप्तिसंज्ञके ॥ ३४ ॥ तत्रोत्पथव्युदासेन विनयेन सविस्तरः । प्रश्नव्याख्यानभेदानां क्रमः समुपवर्ण्यते ।। ३५ ।। षट्पंचाशत् सहस्राणि पंच लक्षाः पदानि तु । ज्ञातृधर्मकथा चष्टे जिनधर्मकथामृतं ॥ ३६ ॥ यत्रैकादशलक्षाश्च सहस्राण्यपि सप्ततिः । पदान्युपासकास्तत्रोपासकाध्ययने सृताः ॥ ३७ ॥ त्रयोविंशतिलक्षाच सहस्राणि च विंशतिः । अष्टौ चैव सहस्राणि स्युः पदान्यंत कृद्दशे ॥ ३८ ॥ दशोपसर्ग जेतारः प्रतितीर्थं दशोदिताः । संसारांतकृतस्तत्र मुनयो ह्येतद्दशे ॥ २९ ॥ लक्षा द्रावतिर्यत्र चत्वारिंशत्सहस्रकैः । चत्वारिंशत्सहस्राणि पदान्यभिहितानि तु ॥ ४० ॥ तत्रोपपादिके देशे वनुतरादिके । दशोपसर्गजवितो तर मनः ॥ ४१ ॥
Jain Education International
१९५
For Private & Personal Use Only
www.jainelibrary.org