________________
हरिवंशपुराणं ।
१९४
दशमः सर्गः ।
सोऽपि सूक्ष्म निगोदस्य लब्धपर्याप्तदेहिनः । संभव सर्वथा तावान् श्रुतावरणवर्जितः ॥ १६ ॥ सर्वस्यैव हि जीवस्य तावन्मात्रस्य नावृतिः । आवृतौ तु न जीवः स्यादुपयोगवियोगतः ।। १७ ।। जीवोपयोगशक्तेश्च न विनाशः सयुक्तिकः । स्यादेवात्यभ्ररोधेऽपि सूर्याचंद्रमसोः प्रभा ॥ १८ ॥ पर्यायानंतभागेन पर्यायो युज्यते यदा । स पर्यायसमासः स्यात् श्रुतभेदो हि सावृतिः ॥ १९ ॥ अनंतासंख्यसंख्येयभागवृद्धिक्षयान्वितः । संख्येयासंख्यकानंतगुणवृद्धिक्रमेण च ॥ २० ॥ स्यात्पर्यायसमासोऽसौ यावदक्षरपूर्णता । एकैकाक्षरवृद्धया स्यात् तत्समासः पदावधिः ॥ २१ ॥ पदमर्थपदं ज्ञेयं प्रमाणपदमित्यपि । मध्यमं पदमित्येवं त्रिविधं तु पदं स्थितं ॥ २२ ॥ एकं द्वित्रिचतुःपंचषट्सप्ताक्षरमर्थवत् । पदमाद्यं द्वितीयं तु पदमष्टाक्षरात्मकं ।। २३ ।। कोट्यश्चैव चतुस्त्रिंशत् तच्छतान्यपि षोडश । त्र्यशीतिश्च पुनर्लक्षाः शतान्यष्टौ च सप्ततिः ॥ २४ ॥ अष्टाशीतिश्च वर्णाः स्युर्मध्यमे तु पदे स्थिताः । पूर्वांगपदसंख्या स्यान्मध्यमेन पदेन सा ||२५|| एकैकाक्षरवृद्धया तु तत्समासभिदस्ततः । इत्थं पूर्वसमासांतं द्वादशांगं श्रुतं स्थितं ॥ २६ ॥ अष्टादशसहस्राणां पदानां संख्यया युतं । तत्राचारांगमाचारं साधूनां वर्णयत्यलं ॥ २७ ॥ यत्पट्त्रिंशत्सहस्त्रैस्तु पदैः सूत्रकृतं युतं । परस्वसमयार्थानां वर्णकं तद् विशेषतः ॥ २८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org