SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । १९३ दशमः सर्गः । वागाधतिशयोद्योते द्योतयत्यर्थसंपदा । जिनेंद्रद्युमणौ को वा मिथ्यांधतमसं भजेत् ॥ ३ ॥ जितेंद्रोऽथ जगौ धर्मः कार्यः सर्वसुखाकरः । पाणिभिःसर्वयत्नेन स्थितः प्राणिदयादिषु ।। ४ ।। मुखं देवनिकायेषु मानुषेषु च यत्सुखं । इंद्रियार्थसमुद्भूतं तत्सर्वं धर्मसंभवं ॥ ५ ॥ कर्मक्षयसमुद्भूतमपवर्गसुखं च यत् । आत्माधीनमनंतं तद् धर्मादेवोपजायते ॥ ६ ॥ दया सत्यमथास्तेयं ब्रह्मचर्यममूर्च्छता । सूक्ष्मतो यतिधर्मः स्यात्स्थूलतो गृहमधिनां ॥ ७ ॥ दानपूजातपःशीललक्षणश्च चतुर्विधः । त्यागजश्चैव शारीरो धर्मो गृहनिषेविणां ॥ ८॥ सम्यग्दर्शनमूलोऽयं महर्द्धिकसुरश्रियं । ददाति यतिधर्मस्तु पुष्टो मोक्षसुखप्रदः ॥ ९ ॥ स्वर्गापवर्गमूलस्य सद्धर्मस्येह लक्षणं । श्रुतज्ञानाद्विनिश्चयमग्दिर्शिभिरथिभिः ॥ १० ॥ द्वादशांगं श्रुतज्ञानं द्रव्यभावभिदां सतं । आप्ताभिव्यंग्यमाप्तश्च निर्दोषाचरणो मतः ॥ ११ ॥ श्रुतं च स्वसमासेन पर्यायोऽक्षरमेव च । पदं चैव हि संघातः प्रतिपत्तिरतः परं ॥ १२ ॥ अनुयोगयुतं द्वारैः प्राभृतप्राभृतं ततः । प्राभृतं वस्तु पूर्व च भेदान् विंशतिमासृतं ॥ १३ ॥ श्रुतज्ञानविकल्पः स्यादेकह्रस्वाक्षरात्मकः। अनंतानंतभेदाणुपुद्गलस्कंधसंचयः ॥ १४ ॥ अनंतानंतभागैस्तु भिद्यमानस्य तस्य च । भागः पर्याय इत्युक्तः श्रुतभेदो ह्यनल्पशः ॥१५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy