________________
हरिवंश पुराणं ।
दशमः सर्गः ।
आत्यैश्वर्यमालोक्य वृषभस्य जिनस्य यत् । सम्यक्त्ववतसंयुक्तं यथायोगमभूत्तदा ||२१८ || इंद्रनीलनिभान् केशान् पद्मरागमयैः करैः । उद्धरंतः स्वयं रेजुः खीपुंसो रागिणस्ततः ॥२१९॥ ॥ तदा प्रव्रजतां ते नापेक्षाभून्मनस्विनां । केशेष्विव शरीरेषु मृदुस्निग्धघनेष्वपि ॥ २२०॥ ततचतुर्विधे संघे निकाये च दिवौकसा | शरणे समवाये च जात द्वादशयोजने || २२१ ॥ महाप्रभाव संपन्नास्तत्र शासनदेवताः । नेमुश्वाप्रतिचक्राद्या वृषभं धर्मचक्रिणं ॥ २२२ ॥ तस्थुर्दक्षिणतो जिनस्य म्रुनयः कल्पांगनाश्चार्थिकाः ज्योतिर्व्यतर भावनामरवधूवर्गाः क्रमणैव हि । भूयोभाव नभौम भौमनिवहा ज्योतिष्ककल्पाः नृपाः। तिर्यंचश्च पृथक् पृथक् पृथुनिजस्थाने गणाद्वादश त्रैलोक्ये जिनशासनोरुपदवीशुश्रूषयावस्थिते । संपृष्टः प्रथमेन तत्र गणिना विश्वार्थविद्योतनः ॥ भूयो भेदविवृत्तयाधरपतिस्यंदोज्झितः स्वात्मना । मोहध्वांतमपाकरोदथ जिनोभानुस्वभाषाश्रिया ।। इति “ अरिष्टनेमि ” पुरणसंग्रहे हरिवंशे जिनसेनाचार्यस्य कृतौ ऋषभनाथकैवल्योत्पत्तिवर्णनो नाम नवमः सर्गः ।
१९२
दशमः सर्गः ।
धर्म प्रवदता तेन तदा त्रैलोक्यसंनिधौ । धृतं वर्षसहस्रांत मौनमुद्योदितं दृढं ॥ १ ॥ संसारतरणं तीर्थ नाथे दर्शयति स्वयं । ददर्श जगदत्यर्थं गंभीरार्थमपि स्फुटं ॥ २ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org